अनुमानचिन्तामणि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुमानचिन्तामणि¦ पु॰ गङ्गेशोपाध्यायकृते न्यायशास्त्र-स्यानुमानतत्त्वज्ञापके प्रकरणभेदे। तत्र च आदौ अनु-मितिस्वरूपादिनिरूपणं ततस्तत्कारणव्याप्तिज्ञानार्थं व्या-प्तिनिरूपणम् ततोव्याप्तिग्रहोपायनिरूपणम् ततो व्याप्ति-ग्रहानुकूलतर्कनिरूपणम्, उक्तासु बह्वीषु व्याप्तिषु कथङ्कारंतासामनुगमस्तन्निरूपणम्” ततः व्याप्तिज्ञानोपायतयासामान्यलक्षणानिरूपणम् ततो हेतोः परिशुड्विज्ञानार्थ-मुपाधिनिरूपणम्। ततोऽनुमित्यङ्गपक्षतानिरूपणम् परा-र्थानुमानस्य पञ्चावयवन्यायसाध्यतया तन्निरूपणम्। अनु-मितौ परामर्शस्य (साध्यव्याप्तिमद्धेतुविशिष्टज्ञानात्मकस्य)स्वरूपादिनिरूपणम्॥ ततोहेतुत्रैविध्यस्य (केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकित्वरूपस्य) निरूपणम् ततोवर्ज्जनीयतया हेतोर्दोषाणां (हेत्वाभासानाम्) निरू-पणम् तत्रादौ सासान्यतोहेत्वाभासलक्षणम् ततः सव्य-भिचारस्य, साधारणस्य, असाधारणस्य, अनुरूपसंहारिणः,असिद्धेश्च क्रमशः, ततो बाधस्य निरूपणम् इत्येतत्पर्य्यन्तंसपरिकरमनुमानं हेयतया तद्दोषांश्च निरूप्य तादृशानुमानेनईश्वरस्य सिद्धिर्दर्शिता तस्याराधनसहकृतेन षोडशपदार्थतत्त्वज्ञानेनात्यन्तिकदुःखनिवृत्तिरूपापवर्गसिद्धिरित्येते पदा-र्थाः तत्रत्या अवधेयाः।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुमानचिन्तामणि/ अनु-मान--चिन्तामणि m. works on अनुमान.
