अनुवाद्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुवाद्य¦ त्रि॰ अनु + वद--ण्यत्। उद्देश्ये प्राप्तावपि किञ्चि-द्विधानार्थमनुकीर्त्तनीये।
“अनुवाद्यमनुक्त्वैव न विधेयमुदी-रयेदिति वृद्धाः तथा च। पर्वतो वह्निमानित्येव प्रयोक्तव्यं ववैपरीत्येन, तथा प्रयोगे तु आलङ्कारिकैः वाक्यगतविधेयाविमर्शदोषो भवतोति प्रतिपादितम् यथा
“न्यक्कारो ह्यय-मेव मे यदरयः” इति वाक्ये अयमेव न्यक्कार इति प्रयोक्तव्येतद्वैपरीत्येन प्रयोगात्तथात्वम्। अतएव
“वृद्धिरादैच्” इति पा॰ सूत्रे आदैच् वृद्धिसंज्ञः स्यादित्यर्थके वृद्धेर्विधेय-त्वेन पूर्ब्बनिर्वेशावश्यम्भावेऽपि वृद्धिशब्दस्य मङ्गलार्थत्वेनप्राक्प्रयोगो भाष्यादौ समर्थितः यथा
“पूर्ब्बोच्चारितः” संज्ञीपरोच्चारितः संज्ञेत्याक्षिप्य
“एतदेकमाचार्य्यस्य मङ्गलार्थंमृष्यताम्। माङ्गलिक आचार्य्यो महतः शास्त्रौघस्य मङ्गलार्थंवृद्धिशब्दमादितः प्रयुङ्क्ते। मङ्गलादीनि हि शास्त्राणि प्रथन्तेवीरपुरुषकाणि च भवन्त्यायुष्मत्पुरुषाणि च अध्येतारश्चवृद्धियुक्ता यथा स्युरित्यन्तेन”।
“माङ्गलिको मङ्गल-प्रयोजनः। महतोऽर्थतः एकैकं सूत्रं शास्त्रमिति शास्त्रौ-धस्येत्युक्तम्। मङ्गलादीनीत्यादिना स्वप्रयोजनं श्रोतृ-प्रयोजनञ्चोक्तम्। प्रथन्ते विस्तृतानि भवन्ति तेन समाप्ति-रर्थाक्षिप्तेति” भा॰ उद्यो॰। [Page0185-b+ 38]
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुवाद्य¦ mfn. (-द्यः-द्या-द्यं) To be conformable or correspondent to. n. (-द्यं) The subject of a predicate. E. अनु before वद् to speak, ण्यत् aff.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुवाद्य [anuvādya], pot. p.
To be explained or illustrated.
(In gram.) To be made the subject of an assertion (in a sentence), opposed to विधेय which affirms or denies something about the subject. In a sentence the अनुवाद्य or subject which is supposed to be already known is repeated to mark its connection with the विधेय or predicate and should be placed first; अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत्; in वृद्धिरादैच्, P.I.1.1 आदैच् should have been placed first, though the construction is defended by Patañjali.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुवाद्य/ अनु-वाद्य mfn. to be explained by an अनुवाद, to be made the subject of one
अनुवाद्य/ अनु-वाद्य n. the subject of a predicate.