अनुवासन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुवासनम्, क्ली, (अनु + वास + सौरभ्ये भावे ल्युट् ।) स्नेहनं । धूपनं । इति हेमचन्द्रः ॥ स्नेहवस्तिः । यथा, -- “अथानुवासनं स्नेहवस्तिधूपनयोरपि” । इति मेदिनी ॥ “द्विधा वस्तिः परिज्ञेयो निरूहश्चानुवासनं । कषायाद्यैर्निरूहः स्यात् स्नेहाद्यैरनुवासनं” ॥ इति वैद्यकं ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुवासन¦ न॰ अनु + वास--सोरभ्ये ल्युट्। धूपादिभिः सुर-भीकरणे, वैद्यौकोक्ते स्नेहाद्यैः वस्तिकर्म्मणि च।
“द्विधा-वस्तिः परिज्ञेयो निरुहश्चानुवासनम्। कषायाद्यैर्निरुहःस्यात् स्नेहाद्यैरनुवासनम्” इति वैद्यकम्। अनुवसति,अनुवासरं दीयते वा पृ॰। सुश्रुतोक्ते अनुवासनद्रव्ये पु॰। तत्र यथाप्रमाणगुणविहितः स्नेहवस्तिविकल्पोऽनुवा-सनः पादावकृष्टः। अनुवसन्नपि न दुष्यत्यनुदिवसं वादीयत इत्यनुवासनः। तस्यापि विकल्पोऽर्द्धार्द्धमात्राव-कृष्टोऽपरिहार्य्यो मात्रावस्तिरिति”।
“निरुहः शोधनोलेखी स्नेहनो वृंहणो मतः। निरुहशोधितान् मार्गान्सम्यक् स्नेहोऽनुगच्छति। अपेतसर्वदोषासु नाडीष्विववहञ्जलम्। सर्वदोषहरश्चासौ शरीरस्य च जीवनः। तस्माद्धि शुद्धदेहस्य स्नेहवस्तिर्विधीयते” इति।
“तत्रो-न्मादभयशोकपिपासारोचकाजीर्णाशपाण्डुरोगभ्रममदमूर्च्छाच्छर्दि--कुष्ठ--मेहोदर--स्थौल्यश्वासकासकण्ठशोषशोकोषसृष्ट-क्षतक्षीणचतुस्त्रिमासगर्भिणी दुर्बलाग्न्युत्सहा बालवृद्धौच वातरोगाद्धते क्षीणा नानुवास्या नास्थापयितव्या उदरीच प्रमेही च कुष्ठी स्थूलश्च मानवः। असाध्यता विकाराणांस्यादेषामनुवासनात्” इति च सुश्रुतम्। अजादिवस्ति-चर्म्मधनवस्त्रादिनिर्मितेन (पिच्कारीति) प्रसिद्धयन्त्रेणधातुवैषम्यदोषनाशाय लिङ्गद्वारेण योनिद्वारेण वा दीय-मानं स्नेहादिद्रव्यमनुवासन इति वैद्यकप्रसिद्धिः। अधिकं वस्तिकर्म्मशब्दे वक्ष्यते। अनुवासनं प्रयोजनमस्यअनुप्रवच॰ छ। अनुवासनीयः अनुवासनहेतौ त्रि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुवासन¦ n. (-नं)
1. Affection, attachment.
2. Perfuming the clothes, especially dipping the ends of the cloth in perfumes.
3. Perfuming, scenting in general.
4. An oily enema.
5. Administering oily enemata. E. अनु after, वास to fumigate, and ल्युट् aff.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुवासन/ अनु-वासन n. id.