सामग्री पर जाएँ

अनुवासनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुवासनम्, क्ली, (अनु + वास + सौरभ्ये भावे ल्युट् ।) स्नेहनं । धूपनं । इति हेमचन्द्रः ॥ स्नेहवस्तिः । यथा, -- “अथानुवासनं स्नेहवस्तिधूपनयोरपि” । इति मेदिनी ॥ “द्विधा वस्तिः परिज्ञेयो निरूहश्चानुवासनं । कषायाद्यैर्निरूहः स्यात् स्नेहाद्यैरनुवासनं” ॥ इति वैद्यकं ॥

"https://sa.wiktionary.org/w/index.php?title=अनुवासनम्&oldid=111602" इत्यस्माद् प्रतिप्राप्तम्