सामग्री पर जाएँ

अनुवृत्तिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुवृत्तिः स्त्री, (अनु + वृत् + क्तिन् । अनुवर्त्तनं । अनुरोधः । इति । हेमचन्द्रः । व्याकरणमते, -- “पूर्ब्बसूत्रस्थितपदस्य परसूत्रेषूपस्थितिः” । तत्प- र्य्यायः । अधिकारः २ । सा त्रिविधा यथा, -- “सिंहावलोकिताख्यश्च मण्डूकप्लुतिरेव च । गङ्गास्रोत इति ख्यातः अधिकारास्त्रयो मताः” ॥ सिंहावलोकितो यथा । वावगोर्दान्ते इत्यस्मात् दान्त इति पदस्य ऋक्यगित्यन्तेषूपस्थितिः ॥ मण्डूकप्लुतिर्यथा । टा भिस् ङे ङसीत्यस्मात् अत इति पदस्य आक्तिमभवीत्यत्रोपस्थितिः ॥ गङ्गास्रोतो यथा । लेः सि औ जसित्यस्मात् लेरिति पदस्य तद्धितपर्य्यन्तेषूपस्थितिः ॥ इति मुग्धबोधटीकायां दुर्गादासः ॥ (अनुवर्त्तनं । अनु- सरणं । अनुमोदनं । अनुरञ्जनं । “अमङ्गलाभ्यासरतिं विचिन्त्यतं तवानुवृत्तिं न च कर्त्तुमुत्सहे” । इति कुमारसम्भवे । अनुकरणं । “यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परा” । इति सा- हित्यदर्पणे । “कान्तानुवृत्तिचातुर्य्यमपि अनुशिक्षितं वत्सेन” । इति उत्तरचरिते ।)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुवृत्तिः [anuvṛttiḥ], f.

Assenting to, approval; तवानुवृत्तिं न च कर्तुमुत्सहे Ku.5.65.

Obedience, conformity, following, continuance in (opp. व्यावृत्ति); taking up; continuity; ज्येष्ठानुवृत्तिजटिलम् R.13.78 by following the example of; अनुवृत्त्या प्रमार्ष्टुमागतः Dk.1 service; cf. also वाचानुवृत्तिः खलु अतिथिसत्कारः Pratimā 5. ततान वह्निः पवनानुवृत्त्या Ki.16.52 in consequence of.

Acting according or suitably to, compliance, acquiescence; gratifying, pleasing; कान्ता˚ - चातुर्यमपि शिक्षितं वत्सेन U.3; Māl.9; Śi.9.58; K.265; M.2.9; राज्यं हि नाम राजधर्म˚ परस्य नृपतेर्महदप्रीतिस्थानम् Mu.3 who conforms to or is true to the duties of kings; (previous) compliant or obedient spirit, previous course of conduct; U.7.5.

Rememberance आसेदुषां गोत्रभिदो$- नुवृत्त्या Ki.18.18.

(Gram.) Being supplied or repeated in a following rule; continued influence of a preceding on a following rule.

Imitating, resembling &c.

Repetition; वर्णानामनुवृत्तिरनुप्रासः.

"https://sa.wiktionary.org/w/index.php?title=अनुवृत्तिः&oldid=200354" इत्यस्माद् प्रतिप्राप्तम्