सामग्री पर जाएँ

अनूचानः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनूचानः, पुं, (अनु + ब्रु + लिट् तस्य कानच् ।) साङ्गवेदविचक्षणः । शिक्षादिषडङ्गसहितवेद- वेत्ता । इत्यमरः ॥ (“इदमूचुरनूचानाः प्रीतिकण्टकितत्वचः” । इति कुमारसम्भवे । “ऋषयश्चक्रिरे धर्म्मं योऽनूचानः स नो महान्” । इति मनुः ।)

अनूचानः, त्रि, (अनु + वच् + लिट् तस्य कानच् । वेदस्यानुवचनं कृतवान्, उपेयिवानित्यादिना साधु ।) विनीतः । सविनयः । इति मेदिनी ॥ (साङ्गवेदविचक्षणः । “अनूचानो विनीते स्यात् साङ्गवेदविचक्षणेः” । इति मेदिनी ॥ शिक्षाकल्पादिषडङ्गसहितवेदाध्ययनकारी, यथा, “इदमूचुरनूचानाः प्रीतिकण्ठकितत्वचः” । इति कुमारसम्भवे । “ऋषयश्चक्रिरे धर्म्मं योऽनूचानः स नो महान्” । इति मनुः) ॥

"https://sa.wiktionary.org/w/index.php?title=अनूचानः&oldid=111641" इत्यस्माद् प्रतिप्राप्तम्