अनूपम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनूपम्, त्रि, (अनुगता आपोऽत्र, समासान्त अच्, अस्य उत्वं ।) जलबहुलदेशः । जलप्लावितस्थानं । तत्पर्य्यायः । जलप्रायं २ । इत्यमरः ॥ अस्य गुणाः । शीतलत्वं । स्निग्धत्वं । वातश्लेष्मकारित्वं । गुरुत्वञ्च । इति राजवल्लभः ॥ एतद्देशीयजलगुणाः । गुरुत्वं ॥ घनत्वं । पिच्छिलत्वं । मधुरत्वं । श्लेष्मजनकत्वं । स्निग्धत्वं । अग्निनाशित्वं । प्रमेहगलगण्डश्लीप- दच्छर्द्दिप्रभृतिरोगकारित्वञ्च । इति राजनिर्घण्टः ।
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ANŪPA(M) : A famous place in ancient India. Some scholars hold the view that Anūpa is near river Narmadā. (Sabhā Parva, Chapter 51, Verse 24).
_______________________________
*4th word in left half of page 45 (+offset) in original book.
