अनेकार्थ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनेकार्थ¦ त्रि॰ अनेके अर्था अभिधेया यस्य। नानार्थेशब्दे। यथा गवादय अक्षादयश्च।
“अनेकार्थस्य शब्दस्यसंयोगाद्यैर्नियन्त्रिते। एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधाश्रयेति” सा॰ द॰। अयमाशयः
“संयोगश्च विभागश्च साह-चर्य्यं विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्यसन्निधिः। सामर्थ्यमौचिती देशः काक्वाद्युक्तिः स्ववाचकः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतव” इति हर्य्युक्तेरनेकार्थ-शब्दानां सर्वत्र शक्तौ समानायां सत्यां, संयोगाद्यैरितरार्थ-बोधप्रतिरोधनेन विशेषार्थ एव स्मार्य्यते। तद्भिन्नार्थस्य तुव्यञ्जनया बोधः इत्यलङ्कारिकाणां मतम्। तथाच संयो-गादयः शक्त्या अन्यार्थोपस्थितौ प्रतिबन्धकाः। व्यञ्जनावृत्त्या तदुपस्थापने तु न।
“अनेकार्थशब्देभ्यःसर्वेषामर्थाना-मविशेषेणोपस्थितौ सत्यामपि संयोगादयः अन्यशक्यविषय-शाब्दबोधमात्रं प्रतिबध्नन्ति नतु व्यङ्ग्यविषयमिति” रस-गङ्गाधरः। नैयायिकादयस्तु अनेकार्थशब्दानां शक्यताच्छेद-कलाघवलाभे तत्रैव शक्तिरन्यत्र लक्षणा तत्र संयोगादयःअन्यार्थबोधनं नैव प्रतिवघ्नन्ति। तथा च संयोगादयः सतितात्पर्य्ये, तद्विषयीभूतार्थविषयस्मृतिं तज्जन्यान्वयबुद्धिं वा नप्रतिवध्नन्ति किन्तु तात्पर्य्यमात्रोन्नायका इत्यलं व्यञ्जना-वृत्त्येति स्वीचक्रुरिति भेदः। अनेके अर्थाः प्रयोजनानि[Page0194-a+ 38] यत्र यस्य वा। अनेकप्रयोजनवति त्रि॰
“अनेकार्थाभि-योगे च यावत्संसाधयेद्धनी” इति स्मृतिः। कर्म्म॰। वहुप्रयोजने पु॰ ब॰ व॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनेकार्थ/ अनेका mfn. having more than one meaning (as a word).
