अनेकाश्रितगुण
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनेकाश्रितगुणः, पुं, (अनेकानि आश्रितः, द्वितीया- श्रितातीत इत्यादिना समासः, तादृशः गुणः कर्म्मधारयः ।) बहुनिष्ठगुणः । तद्यथा । संयोगः १ विभागः २ द्विपृथक्त्वादिः ३ एकत्वान्यसङ्ख्या ४ । इति सिद्धान्तमुक्तावली ॥ (“संयोगश्च वियोगश्च सङ्ख्या द्वित्वादिकास्तथा । द्विपृथक्त्वादयस्तद्वदेतेऽनेकाश्रिता गुणाः” । इति भाषापरिच्छेदे ।)
