अन्च
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्च उ गतिपूजनयोः । इति मुग्धबोधे वोपदेवः ॥
अन्च उ पूजने । गमने । म्लिष्टोक्तौ । इति कवि- कल्पद्रुमः ॥ उ अञ्चित्वा अङ्क्त्वा । म्लिष्टोक्तिर- व्यक्तशब्दः । इति दुर्गादासः ॥
अन्च क व्यक्तौ । इति कविकल्पद्रुमः ॥ व्यक्तिरिह विशेषणं । क अञ्चयति बुद्धिं सुधीः । विशिनष्टी- त्यर्थः । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्च¦ व्य क्तौ चु॰ उभ॰ सक॰ सेट्। अञ्चयति--ते आञ्चिचत्-त कर्म्मणि अञ्च्यते। णिजभावे अच्यते इति भेदः
“पूर्ण्णात् पूर्ण्णमुदच्यते” इति श्रुतिः।