सामग्री पर जाएँ

अन्ज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्ज उ ध ञि व्यक्तौ । गतौ । म्रक्षणे । इति कवि- कल्पद्रुमः ॥ उ अञ्जिष्यति अङ्क्ष्यति । ध अनक्ति । ञि अक्तोस्ति । व्यक्तिः स्फुटीकरणं । “शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यतां” । इति माघः ॥ अनक्ति गात्रं तैलेन जनः । इति दुर्गादासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्ज¦ गतौ कान्तौ म्रक्षणे व्यक्तौ च रुधा॰ वर्त्तमाने क्तऊदित् वेट् पर॰। अनक्ति। सिचि परस्मैपदे नित्यमिट्। आञ्जीत्--आनञ्ज। अञ्जिता--अङ्क्ता। अञ्जिष्यति--ङ्क्ष्यति। क्त अक्तः। क्तिन् अक्तिः। क्त्वा--अक्त्वा अञ्जित्वा। वि + प्रका-शने। व्यनक्ति व्यज्यते
“व्यनक्ति कालत्रितयेऽपि योग्यता-मिति” माघः। घञ् व्यङ्गः। ण्यत् व्यङ्ग्यः।
“सव्यङ्ग्य-मुत्तमं काव्यमिति”। णिच्। व्यञ्जयति ल्युट्। व्यञ्ज-[Page0195-a+ 38] नम्।
“अन्यार्थधीकृत् व्यापृतिरञ्जनम्” का॰ प्र॰। कर्त्तरि ल्यु। व्यञ्जना एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधा-श्रयेति” सा॰ द॰।

"https://sa.wiktionary.org/w/index.php?title=अन्ज&oldid=200946" इत्यस्माद् प्रतिप्राप्तम्