सामग्री पर जाएँ

अन्तःकरणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्तःकरणम्, क्ली, (अन्तर्मध्यवर्त्ति करणं ज्ञानसाधनं, कर्म्मधारयः, कृ + करणे ल्युट् ।) अन्तरिन्द्रियं । धीन्द्रियं । तत्पर्य्यायः । मनः २ निगुः २ । इति त्रिकाण्डशेषः ॥ अस्य कार्य्यभेदान्नामचतुष्टयं, यथा, -- “मनो बुद्धिरहङ्कारश्चित्तं करणमान्तरं । संशयो निश्चयो गर्व्वः स्मरणं विषया अमी” ॥ इति वेदान्तः ॥ (अस्योत्पत्तिर्यथा, -- “मिलितैस्तु तैः अन्तःकरणमेकं स्यात्” इति । तैः पञ्चभूतस्थ- सत्त्वांशैर्मिलितैः अन्तःकरणं भवतीत्यर्थः । “धनुर्भृतोऽप्यस्य दयार्द्रभाव- माख्यातमन्तःकरणैर्विशङ्कैः” । इति रघुवंशे ।)

"https://sa.wiktionary.org/w/index.php?title=अन्तःकरणम्&oldid=111690" इत्यस्माद् प्रतिप्राप्तम्