अन्तःपुरम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्तःपुरम्, क्ली, (अन्तर्मध्यवर्त्ति पुरं मृहं, कर्म्म- धारयः ।) राज्ञः स्त्रीगृहं । तत्पर्य्यायः । अव- रोधनं २ अवरोधः ३ शुद्धान्तः ४ । इत्यमरः ॥ अन्तःपुरादयो राजदारेष्वपि तात्स्थ्यात् वर्त्तन्ते । यथा । “शुद्धान्तसम्भोगनितान्ततुष्टे” । इति नैषधम् । इति भरतः ॥ “दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा” । इत्यभिज्ञान शकुन्तलम् ॥
