सामग्री पर जाएँ

अन्तःपुराध्यक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्तःपुराध्यक्षः, पुं, (अन्तःपुरस्य अध्यक्षः रक्षकः, षष्ठीतत्पुरुषः ।) राज्ञामन्तःपुररक्षकः । तल्ल- क्षणं यथा, -- “वृद्धः कुलोद्गतः शक्तः पितृपैतामहः शुचिः । राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते” ॥ इति युक्तिकल्पतरुः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्तःपुराध्यक्ष¦ पु॰

६ त॰।
“वृद्धः कुलोद्गतः शक्तः पितृ-पैतामहः शुचिः। राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते” इति नरपत्युक्तलक्षणेऽन्तःपुराधिवृते। अन्येऽपि पञ्च तथा,
“पञ्चापरे वामनको जघन्यः कुब्जोऽपरो मण्डलकोऽथसामी। पूर्ब्बोक्तभूपानुचरा भवन्ति सङ्कीर्णसंज्ञाः शृणुलक्षणै-स्तान्॥ सम्पूर्णाङ्गो वामनो (

१ ) भग्नपृष्ठः किञ्चिच्चोरु-र्मध्यकक्षान्तरेषु। ख्यातो राज्ञो ह्येष भद्रानुजीवी स्फीतोदाता वासुदेवस्य भक्तः॥ मालव्यसेवी तु जघन्यनामाखण्डेन्दुतुल्यश्रवणः सुसन्धिः। शुक्रेण सारः पिशुनःकविश्च रूक्षच्छविः स्थूलकराङ्गुलीकः॥ क्रूरो धनी स्थूल-मतिः प्रतीतस्ताम्रच्छविः स्यात् परिहासशीलः। उरोऽंह्रि-हस्तेष्वसिशक्तिपाशपरश्वधाङ्कश्च जघन्थनामा (

२ )॥ कुब्जो (

३ )नाम्नायः स शुद्धो ह्यधस्तात् क्षीणः किञ्चित्पूर्वकाये नतश्च। हंसासेवी नास्तिकोऽर्थैरुपेतो विद्वान् शूरः सूचकः स्यात्कृतज्ञः॥ कलास्वभिज्ञः कलहप्रियश्च प्रभूतभृतः प्रमदा-जितश्च। सम्पूज्य लोकं प्रजहात्यकस्मात् कुब्जोऽयमुक्तःसततोद्यतश्च॥ मण्डलकनामधेयो

४ रुचकानुचरोऽभिचार-वित् कुशलः। कृत्यावैतालादिषु कर्मसु विद्यासु चानुरतः॥ [Page0197-a+ 38] वृद्धाकारः खररूक्षमूर्धजः शत्रुनाशने कुशलः। द्विजदेव-यज्ञयोगप्रसक्तधीः स्त्रीजितो मतिमान्॥ सामीति (

५ ) यःसोऽतिविरूपदेहः शशानुगामी खलु दुर्भगश्च। दाता महा-रम्भसमाप्तकार्यो गुणैः शशस्यैव भवेत् समानः” वृहत्-संहितोक्तलक्षणादिभेदपञ्चकात्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्तःपुराध्यक्ष/ अन्तः--पुरा m. superintendent of the women's apartments , chamberlain.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--Superintendent of the harem and his qualification. M. २१५. ४२; २१६. 9.

"https://sa.wiktionary.org/w/index.php?title=अन्तःपुराध्यक्ष&oldid=425170" इत्यस्माद् प्रतिप्राप्तम्