सामग्री पर जाएँ

अन्तर्गतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्तर्गतम्, त्रि, (अन्तः अन्तकरणात् गतं, अथवा अन्तर्मध्ये गतं प्राप्तम् ।) विस्मृतं । मध्यप्राप्तं । इति हेमचन्द्रः ॥ (“अन्तर्गतशवे ग्रामे” । इति मनुः । “सागरान्तर्गताः केचित्केचित् पर्ब्बतमाश्रिताः” । इति रामायणम् । आभ्यन्तरः । हृदयमध्यस्थितः । अन्तःकरणस्थः । “अन्तर्गतप्रार्थनमन्तिकस्थं” । इति शाकुन्तले । “आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः” ॥ इति मनुः ।)

"https://sa.wiktionary.org/w/index.php?title=अन्तर्गतम्&oldid=111735" इत्यस्माद् प्रतिप्राप्तम्