अन्तर्द्धानम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्तर्द्धानम्, क्ली, (अन्तर्धानं, अन्तर् + धा + भावे ल्युट् ।) आच्छादनं । इति शब्दरत्नावली ॥ तत्पर्य्यायः । अन्तर्द्धा २ व्यवधा ३ अन्तर्द्धिः ४ अपवारणं ५ अपिधानं ६ तिरोधानं ७ पिधानं ८ छदनं ९ । इत्यमरः ॥ (“अन्तर्द्धानं स्मृतिः कान्तिर्दृष्टिः श्रोतज्ञता तथा” इति याज्ञवल्क्यः ।)
