अन्तर्मातृकान्यास
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्तर्मातृकान्यास¦ पु॰ अन्तःस्थाया मातृकाया न्यासः उच्चा-रणपूर्ब्बकं तत्तत्स्थानेषु न्यासः। अन्तस्थमातृकावर्णानांस्मरणपूर्ब्बकं तत्तत्स्थानेषु न्यासे। यथा
“न्यासोऽय-मान्तर” इत्युपक्रम्य
“द्व्यष्टपत्राम्बुजे कण्ठे स्वरान् षोडशविन्यसेत्। द्वादशच्छदहृत्पद्मे कादीन् द्वादश विन्यसेत्। दशपत्राम्बुजे नाभौ डकारादीन्न्यसेद्दश। षट्पत्रमध्येलिङ्गस्थे बकारादीन्न्यसेच्च षट। आधारे चतुरोवर्णान्न्यसेद्वादीन् चतुर्द्दले। हक्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत्प्रिये!। तन्मध्ये परविन्दुञ्च सृष्टिस्थितिलयात्मकम्। एवंसमाहितमना ध्यायेन्न्यासोयमान्तरः” इति तन्त्रसारः।
