सामग्री पर जाएँ

अन्तर्याग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्तर्याग¦ पु॰ अन्तरन्तःकरणेन मनसा कल्पितोपचारैर्यागःपूजा होमश्च। तन्त्रोक्ते मानसोपचारैः पूजने, होमभेदे च।
“अर्च्चयन् विषयैः पुष्पैस्तत्क्षणात् तन्मयो भवेत्। न्यासै-स्तन्मयताबुद्धिः सोहंभावेन पूजयेत्”। तन्मयेति तदेकत्व-ज्ञानं सोहमिति,
“मन्त्राक्षराणि तच्छक्तौ प्रोतानि परिभाव-येत्। तामेव परमव्योम्नि परमानन्दवृंहिते। दर्शयत्यात्मसद्भावंपूजा होमादिभिर्विनेति”। विषयपुष्पाणि यथा। अमा-यामनहङ्कारमरागमगदं तथा। अमोहकमदम्भञ्च अ-निन्दाऽक्षोभकौ तथा। अमात्सर्य्यमलोभञ्च दशपुष्पंविदुर्बुधाः। अहिंसा परमं पुष्पं पुष्पमिन्द्रियनिग्रहः। दया पुष्पंक्षमा पुष्पं ज्ञानं पुष्पञ्च पञ्चमम्। इत्यष्टसप्तभिः

१५ पुष्पैः पूजयेत् परदेवताम्”। अथ होमः।
“आत्मा-नमपरिच्छिन्नं विभाव्यात्मानमन्तरा परमात्मज्ञानमेकस्व-रूपं संविभाव्य च। चतुरस्रं तु चित्कुण्डमानन्दमेखला-युतम्। अर्द्धमात्राकृतिर्योनिस्तया चैव विभूषितम्। नाभौध्यात्वा तन्मयस्थज्ञानाग्नौ जुहुयात् यथा। मूलान्ते नाभि-चैतन्यरूपाग्नौ हविषा स्रुचा। ज्ञानप्रदीपिते नित्यमक्षवृत्ती-र्जुहोम्यहम्”। (स्वाहा इति प्रथमाहुतिः, मूलान्ते) घर्म्मा-धर्म्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा। सुषुम्णावर्त्मनानित्यमक्षवृत्तीर्जुहीम्महम्”। (स्वाहेति द्वितीयाहुतिः,मूलान्ते)
“प्रकाशाकाशहस्ताभ्यां अवलम्बन्मनःस्रुचा। धर्म्माधर्म्मकलास्नेहपूर्ण्णमग्नौजुहोम्यहम्”। (स्वाहेति तृती-[Page0204-a+ 38] याहुतिं जुहुयात्। ततो मूलान्ते)।
“अन्तर्निरन्तर-निरिन्धनएधमाने मायान्धकारपरिपन्थिनि संविदग्नौ। कस्मिंश्चिदद्भुतमरीचिविकाशमूमौ विश्वं जुहोमि वसुघादि-शिवासनान्तम्। इत्यन्तर्यजनं कृत्वा साक्षाद्ब्रह्ममयो भवेत्। न तस्य पापपुण्यानि जीवन्मुक्तोभवेद्ध्रुवम्”।
“अयमन्त-र्यागोज्ञानिनामेव। अथान्तःपञ्चमकारयजनप्रकारः॥ तदुक्तं कुलार्ण्णवे अन्तर्यजने”।
“सुरा शक्तिः शिवोमांसंतद्भोक्ता भैरवःस्वयम्। तयोरैक्यसमुत्पन्ने आनन्दोमोक्षउच्यते। आनन्दं ब्रह्मणोरूपं तच्च हव्ये व्यवस्थितम्। तस्याभिव्यञ्जकं द्रव्यं यीगिभिस्तेन पीयते। लिङ्गत्रय-विशेषज्ञः षट्चक्रपद्मभेदतः। पीठस्थानानि चागम्य महापद्मवनं व्रजेत्। आमूलाधारमाब्रह्मरन्धं गत्वा पुनः पुनः। चिच्चन्द्रकुण्डलीशक्तिसामरम्यमहोदयः। व्योमपङ्कजनि-ष्यन्दसुधापानरतो नरः। मधुपानमिदं देवि! चेतरन्मद्य-पानकम्। पुण्यापुण्यं पशुं हत्वा ज्ञानखड्गेन योगवित्। परे लयं नयेच्चित्तं पलाशीति निगद्यते। मानसादिन्द्रिय-गणं संयम्यात्मनि योजयेत्। मांसाशी स भवेद्देवि! इतरेप्राणिघातकाः। शिवशक्त्यात्ममिथुनसंयोगानन्दनिर्भराः। मुक्तास्ते सैथुनं तत्स्यादितरे स्त्रीनिषेवकाः” इति त॰ सा॰
“अन्तःपूजां विधायैव वाह्यपूजां समाचरेदिति” तन्त्रम्।

"https://sa.wiktionary.org/w/index.php?title=अन्तर्याग&oldid=486601" इत्यस्माद् प्रतिप्राप्तम्