अन्तर्व्वेदी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्तर्व्वेदी, स्त्री, (अन्तः पृथ्वीमध्यस्थतया वेदीव । अन्तर्वेदि इति पाठे अन्तर्मध्ये वेदिर्यत्र देशे सः ।) ब्रह्मावर्त्तदेशः । गङ्गायमुनयोर्म्मध्यदेशः । आ- प्रयागहरिद्वारपर्य्यन्तदेशः । दोयाव इति पश्चिम- देशे ख्याता । तत्पर्य्यायः । शशस्थली २ । इति त्रिकाण्डशेषः ॥
