अन्तिकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्तिकम्, त्रि, (अन्तः सामीप्येन विद्यतेऽस्य, अन्त + ठन् तस्य इकः ।) निकटं । इत्यमरः ॥ सामीप्ये क्ली । इति धरणी ॥ (“अन्तर्गतप्रार्थनमन्ति- कस्थं” । “स्वनसि मृदुकर्णान्तिकचरः” । इति शाकुन्तले । “ननु मां प्रापय पत्युरन्तिकम्” । इति कुमारसम्भवे ।)
