सामग्री पर जाएँ

अन्तेवासी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्तेवासी, [न्] पुं, (अन्ते विद्यामध्येतुमध्यापक- समीपे वसति । चण्डालपक्षे तु नीचजातितया ग्रामप्रान्ते वसति शयवासेत्यलक्, अन्त + वस् + णिनि ।) शिष्यः । (“कृशाश्वान्तेवासी कुशिकपतिराज्ञापयति वः” । इति महावीरचरिते । “तात ! प्राचेतसान्तेवासी लवोऽभिवादयते” । इति उत्तरचरिते ।) चण्डालः । इत्यमरः ॥ प्रान्त- स्थायिनि त्रि ॥ इति विश्वः ॥

"https://sa.wiktionary.org/w/index.php?title=अन्तेवासी&oldid=486649" इत्यस्माद् प्रतिप्राप्तम्