अन्त्यजः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्त्यजः, पुं, (अन्त्यो भूत्वा जायते, अन्त्य + जन् + डः ।) शूद्रः । इति हलायुधः ॥ रजकादिसप्त- जातयः । यथा, -- “रजकश्चर्म्मकारश्च नटो वरुड एव च । कैवर्त्तमेदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः” ॥ इति यमवचनं ॥ जघन्यजे त्रि ॥
