सामग्री पर जाएँ

अन्त्येष्टिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्त्येष्टिः, स्त्री, (अन्त्या अन्ते भवा इष्टिः, कर्म्म- धारयः ।) चरमसंस्कारः । स तु शवदाहादि- रूपः । यथा, -- “सपिण्डादिभिदाशौचसंक्षेपोऽन्त्येष्टिपद्धतिः” । इति शुद्धितत्त्वप्रतिज्ञायां स्मार्त्तभट्टाचार्य्यः ॥ तत्- प्रयोगो दाहशब्दे द्रष्टव्यः ॥ तदनन्तरं पूरकपिण्ड- प्रमाणं पिण्डशब्दे द्रष्टव्यं ॥ तस्य प्रयोगोऽत्र लिख्यते । ततः पिण्डदानं तत्र क्रमः । तण्डुल- प्रसृतिद्वयं द्विः प्रक्षाल्य ऐशान्यां दिशि सुखिन्नं पचेत् । ततः पवित्रपाणिः प्राचीनावीती पातित- वामजानुर्दक्षिणामुखो हस्तप्रमाणां चतुरङ्गुलो- च्छ्रायां दक्षिणप्लवां पिण्डिकां कृत्वा तदुपरि रेखां कृत्वा दर्भानास्तीर्य्य तिलान् प्रक्षिप्य । ओ~ अमुकगोत्रप्रेतामुकदेवशर्म्मन्नवनेनिक्ष्व इत्या- स्तीर्णकुशोपरि सतिलजलेनावनेजयेत् । तत- स्तिलमधुघृतादिमिश्रं तप्तपिण्डं गृहीत्वा अद्या- मुकगोत्रस्य प्रेतस्यामुकदेवशर्म्मणः एतत् प्रथम- पिण्डं पूरकं इत्यवने जनस्थाने दद्यात् । ततः पिण्डपात्रक्षालनजलेन पुनरवनेजयेत् । ओ~ अमुक- गोत्रप्रेतामुकदेवशर्म्मन्नेतत्ते ऊर्णातन्तुमयं वासः । ततः आममृण्मयपात्रे जलाञ्जलिं पिण्डसमीपे स्थापयेत् । गन्धं माल्यञ्च यथाशक्ति दद्यात् । वाष्पपर्य्यन्तं पिण्डं पश्यंस्तिष्ठेत् । ततः पिण्डा- दिकं जले क्षिपेत् । कालेऽप्यकृतचूडोपनयनानां अनूढकन्यानाञ्च कुशास्तरणं विनेति शेषः । एवं कृतचूडानामुपनयनकालात् प्राक् दर्भोपरि पिण्ड- दानं । उपनयनकाले आगते त्वकृतोपनयनानां दर्मोपरि पिण्डदानं । एवं अष्टवर्षविवाहकाले आगते ऊढस्त्रीणां दर्भोपरि पिण्डदानं । रात्रा- वाचम्य दक्षिणामुखः प्राचीनावीती पातितवाम- जानुः त्रिकाष्ठिकोपरि मृण्मयपात्रे उदकं तथा पात्रान्तरे क्षीरं निधाय प्रेतात्र स्नाहि पिब चेदं क्षीरमिति ब्रूयात् । तदेकरात्रमावश्यकं दशरात्रं फलभूयस्त्वार्थमिति । द्वितीयपिण्डादिषु द्वितीयं पिण्डं पूरकं इत्यादिविशेषः । द्वितीय- पिण्डे मृण्मयपात्रद्वये जलाञ्जलिद्वयं । तृतीयादि- पिण्डे पात्रादिवृद्धिः । येन पञ्चपञ्चाशत् पा- त्राण्यञ्जलयश्च तावन्ति । त्र्यहाशौचप्रथमदिने पिण्डानां त्रयं । द्वितीयदिने चतुष्टयं । तृतीये त्रयं । प्रथममेकं द्वितीये चतुष्टयं । तृतीये पञ्चमं वा कल्पः । चतुरहाशौचे प्रथमचतुर्थयोर्द्वौ द्वौ । द्वितीयतृतीययोस्त्रयस्त्रयः । पञ्चाहाशौचे तु प्र- थमपञ्चमदिनयोरेकैकशः पिण्डः । द्वितीयचतु- र्थयोर्द्वौ द्वौ । तृतीये चत्वारः । षडहाशौचे द्वि- तीयचतुर्थदिनयोस्त्रयस्त्रयः । शेषेष्वेकैकः । सप्ता- हाशौचे तृतीयचतुर्थपञ्चमदिनेषु द्वौ द्वौ । शेषे- ष्वेकैकः । अष्टाहाशौचे चतुर्थपञ्चमदिनयोर्द्वौ द्वौ । शेषेष्वेकैकः । नवाहाशौचे तु पञ्चमदिने द्वौ । शेषेष्वेकैकः । पक्षिणीद्व्यहाशौचयोस्त आद्यद्वितीयदिनयोः पञ्च पञ्च पिण्डाः । द्वादशा- हाद्यशौचे नवदिनेषु नवपिण्डाः । शेषदिने दशमः । सद्यः शौचैकाहयोरेकाह एव दशपिण्डाः । अशौ- चान्तमध्ये पिण्डो देयः रात्रावपि ॥ * ॥

"https://sa.wiktionary.org/w/index.php?title=अन्त्येष्टिः&oldid=111804" इत्यस्माद् प्रतिप्राप्तम्