अन्त्रवृद्धिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्त्रवृद्धिः, स्त्री, पुं, (अन्त्रजन्या वृद्धिः, शाक- पार्थिवादित्वात् समासः मध्यपदलोपश्च ।) रोग- विशेषः । तन्निदानादि यथा, -- “वातकोपिभिराहारैः शीततोयावगाहनैः । धारणे रणभाराध्वविषमाङ्गप्रवर्त्तनैः ॥ क्षोभणैः क्षोभितान्यैश्च क्षुद्रान्तावयवं यदा । पवनो द्विगुणीकृत्य स्वनिवेशादधो नयेत् ॥ कुर्य्याद्वंक्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा” । धारणं उपस्थितस्य वेगस्य । ईरणं अनुपस्थितस्य वेगस्य प्रेरणं । “विषमाङ्गप्रवर्त्तनं वक्रत्वेनाङ्गमोटनं” । अन्यानि क्षोभणानि च बलवद्विग्रहकठोरधनुरा- कर्षणादीनि । तैः क्षोभितः संदूष्य सञ्चालितः पवनः यदा क्षुद्रान्त्रावयवं द्विगुणीकृत्य स्वनिवेशा- दधो नयेत् । तदा वंक्षणसन्धिस्थः सन् वंक्षण- रुवुतैलेन संयुक्तमन्त्रवृद्धिं व्यपोहति” । रास्नादिक्वाथः ॥ * ॥ “गन्धर्व्वहस्ततैलेन वृषेणापि युतं पिबेत् । विशालामूलजं चूणं वृद्धिं हन्यान्न संशयः” ॥ विशाला इन्द्रवारुणी ॥ * ॥ “वचासर्षपकल्केन प्रलेपः शोथनाशनः । शिग्रुत्वक्सर्षपैः पिष्टैः शोथश्लेष्मानिलापहः ॥ शुद्धसूतं द्विधागन्धं मृतान्येतानि योजयेत् । लोहं रङ्गं तथा ताम्रं कांस्यञ्चाथ विशोधितं । तालकं तुत्थकं वापि तथा शङ्खं वराटकं ॥ त्रिकटु त्रिफला चव्यं विडङ्गं वृद्धदारकं ॥ कर्च्चूरं मागधीमूलं पाठां सहवुषां वचां । एलावीजं देवकाष्ठं तथा लवणपञ्चकं ॥ एलादिसमभागानि चूर्णयेदथ कारयेत् । कषायेण हरीतक्या वटिकां टङ्कसम्मितां ॥ एकां तां वटिकां यस्तु निगिलेद्वारिणा सह । अण्डवृद्धिरसाध्योऽपि तस्य नश्यति सत्वरं” ॥ वृद्धिवाधिकावटी ॥ * ॥ अथ ब्रध्नस्य चिकित्सा । “भृष्टश्चैरण्डतैलेन सम्यक् कल्कोऽभयाभवः । कृष्णासैन्धवसंयुक्तो ब्रध्नरोगहरः परः ॥ अजाजीहवुषाकुष्ठं गोमेदवदरान्वितं । काञ्जिकेन तु संपिष्टं तल्लेपो ब्रध्नजित् परः” ॥ गोमेदं पत्रं । तथा च निर्घण्टौ धन्वन्तरिः । “पत्रं हलाह्वयं रामं गोमेदं वसनाह्वयं” । इतिवृद्धिब्रध्नधिकारः । इति भावप्रकाशः ॥
