अन्दूक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्दूकः, पुं, (अन्दू + स्वार्थे कन्, पृषोदरादित्वात् पक्षे केहण इति ह्रस्वाभावः । स्वार्थिकप्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिक्रामन्ति इति पुंस्त्व मन्यथा अन्दूका इति स्यात् ।) अन्दूः । इत्यमर- टीकायां स्वामी ॥ अन्धत् क दृक्क्षये । इति कविकल्पद्रुमः ॥ (पाणिनिमते तु अन्धदृष्टि विघाते चुरादि सेट् ।) दृक्क्षयो दृष्टिरहिती- भावः । तेनाकर्म्मकोऽयं । सत्ताजीवनदर्पभीति- शयनक्रीडानिवासक्षयाव्यक्तध्वाननभोगतिस्थिति- जरालज्जाप्रमादोदये । मोहे खोटनवेगयुद्धदहन- ख्यातिक्षरोन्मादके शुद्धिस्वेदपलायनभ्रमणके शान्तौ प्लुतौ मज्जने ॥ दृप्तौ जागरशोषवक्रगम- नोत्साहे मृतौ संशये म्लानौ मन्दगतौ च नृत्य- पतने चेष्टाक्रुधौ रोदने । वृद्धौ हावकृतौ च सिद्धिविरतौ हर्षोपवेशे बले कम्पोद्बेगनिमेषभङ्ग- यतनाद्ये धातवोऽकर्म्मकाः ॥ दौर्बल्यादिषु चा- र्थेषु वर्त्तमानास्तु धातवः । वाचका भावमात्रस्य यतस्तस्मादकर्म्मकाः ॥ कौटिल्यादिषु चार्थेषु प्रोक्ता ये ते तु धातवः । तद्वद्भावेऽकर्म्मकाः स्युस्तद्वत्- कृत्यां सकर्म्मकाः ॥ इति । अन्धयति अन्धापयति वृद्धः । इति दुर्गादासः ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्दूक¦ m. (-कः) The chain for an elephant's feet. See the last.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्दूक m. id. L.