सामग्री पर जाएँ

अन्धकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्धकः, पुं, (अन्ध + ण्वुल् ।) देशभेदः । इति शब्दरत्नावली ॥ नृपभेदः । (“सुदंष्ट्रं च सुचारुं च कृष्णमित्यन्धकास्त्रयः” । इति हरिवंशे ।) असुरभेदः । इति महाभारतं ॥ (“स व्रजत्यन्धवद्यस्मादनन्धोऽपि हि भारत । तमन्धकोऽयं नाम्नेति प्रोचुस्तत्र निवासिनः” । इति हरिवंशे ।) मुनिविशेषः । इति याज्ञ- वल्क्यः ॥ (दृष्टिहीनः । चक्षुर्द्वयहीनः । “अन्धकः कुब्जकश्चैव राजकन्या च त्रिस्तनी । त्रयोऽप्यन्यायतः सिद्धाः सम्मुखे कर्म्मणि स्थिते” ॥ इति पञ्चतन्त्रे ।)

"https://sa.wiktionary.org/w/index.php?title=अन्धकः&oldid=111823" इत्यस्माद् प्रतिप्राप्तम्