सामग्री पर जाएँ

अन्धकारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्धकारः, पुं, क्ली, (अन्धमन्धकवत् करोति, अन्ध + कृ + अण् ।) तेजःसामान्याभावः । आ~धार इति भाषा । तत्पर्य्यायः । ध्वान्तं २ तमिस्रं ३ तिमिरं ४ तमः ५ । इत्यमरः ॥ (“अथान्धकारं गिरिगह्वराणां” । इति रघुवंशे ।) भूच्छायं ६ । इति राजनिर्घण्टः ॥ महान्धकारे अन्धतमसं । ७ सर्व्वव्यापकान्धकारे सन्तमसं । ८ अल्पान्धकारे अवतमसं ९ । इत्यमरः ॥ अस्य गुणाः । भयदृष्टि- तेजोऽवरोधकारित्वं । तिक्तत्वं । सर्व्वव्याधिकर- त्वञ्च । इति राजवल्लभः ॥

"https://sa.wiktionary.org/w/index.php?title=अन्धकारः&oldid=111827" इत्यस्माद् प्रतिप्राप्तम्