अन्धतामिस्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्धतामिस्रम्, क्लीं, (तमिस्रैव तामिस्रं, स्वार्थे अण्, अन्धं निविडं तामिस्रं कर्म्मधारयः ।) निविडा- न्धकारमयनरकविशेषः । पञ्चप्रकाराज्ञानान्तर्ग- ताज्ञानविशेषः । देहनाशे अहमेव मृतोऽस्मीति बुद्धिः । इति भारतभागवते, -- (“एकविंशतिविधनरकान्तर्गतद्वितीयनरकवि- शेषः” स च निविडान्धकारमयः । “तस्यां धर्म्म- पत्न्यामन्धतामिस्रमभ्यध्यायत्” । इति महावीर- चरिते ।)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्धतामिस्र¦ न॰ तमिस्रा तमस्ततिः तमिस्रैव तामिस्रम् अन्ध-वतीत्यन्धम् कर्म्म॰। निविडान्धकारे। अन्धम् अन्धकारकंतामिस्रं यत्र
७ ब॰। नरकविशेषे पु॰ न॰।
“तामिस्रमन्धता-मिस्रं महारौरवरौरवौ नरकं कालसूत्रञ्च नहानरकमेव-चेत्यादिना” मनुना गणितेषु एकविंशतिनरकभेदेषु द्वितीयेनरले तत्स्वरूपम्।
“यस्तु परवित्तापत्यकलत्राण्य-शहरति स हि कालपाशबद्धो यमपुरुषैरतिभयानकै[Page0210-b+ 38] स्तामिस्रे नरके बलान्निपात्यते॥ अनशनानिपान-दण्डताडनसन्तर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुर्यत्रकश्मलमासादितएकदैक मूर्च्छामुपयाति तासिस्रप्राये॥ एवमेव अन्धतामिस्रे। यस्तु
“वञ्चित्वा पुरुषं दारादीनुप-युङ्क्ते यत्र शरीरी निपात्यमानो यातनास्थो वेदनयानष्टमतिर्नष्टदृष्टिश्च भवति यथा वनस्पतिर्वृश्च्यमार्नमूल-स्तस्मादन्धतामिस्रं तमुपदिशन्ति इति भाग॰
५ स्क॰॥ सांख्यशास्त्र प्रसिद्धे भयविशेषविषयकेऽभिनिवेशे पु॰। तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः इति सा॰ का॰।
“अभिनिवेशस्त्रासः दिव्यादिव्यशब्दविषयत्वेन दशविष-यकत्वात् अणिमाद्यष्टविधैश्वर्य्यविषयत्वाच्चाष्टादशधा। तथाहि देवाः खल्वणिमादिकमष्टविधमैश्वर्य्यमामाद्य दशशब्दादीन् भुञ्जानाः
“शब्दादयो भोग्यास्तदुपायाश्चाणि-मादयोऽस्माकं असुरादिभि र्मास्म उपघानिषतेति बिभ्यतितदिदं भयमभिनिवेशोऽन्धतामिस्रोऽष्टादशविषयत्वादष्टादश-धेति” सा॰ कौ॰। वेदान्तिमतसिद्धे
“देहे नेष्टे अहमेवनष्टोऽस्मीत्येवं” रूपे अज्ञाने च।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्धतामिस्र/ अन्ध--तामिस्र m. complete darkness of the soul
अन्धतामिस्र/ अन्ध--तामिस्र n. the second or eighteenth of the twenty-one hells Mn. etc.
अन्धतामिस्र/ अन्ध--तामिस्र n. doctrine of annihilation after death.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--one of २८ hells. Here the person who deceives the husband and robs him of his wife and property is made to suffer. भा. III. ३०. २८ & ३३; V. २६. 7 & 9.
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ANDHATĀMISRA : One of the 28 hells. (See Naraka). This hell is destined for wives who cheat their husbands and consume food and for husbands who cheat their wives and eat food. Agents of Yama get hold of such sinners and push them into the Andhatāmisra. As the cords of the agents with which they bind the sin- ners get tighter around their bodies they faint and fall down owing to unbearable pain. When they regain consciousness and try to run away and escape, the Agents of Yama again bind them with the cord. (Devī Bhāgavata, Aṣṭama Skandha).
_______________________________
*5th word in right half of page 36 (+offset) in original book.