अन्नप्राशनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्नप्राशनम्, क्ली, (अन्नस्य प्राशनं भोजनं यस्मिन् तत् । अन्न + प्र + अश + भावे ल्युट् ।) षष्ठे मासि अष्टमे वा बालकस्य पञ्चमे मासि सप्तमे वा बालिकायाः प्रथमान्नभक्षणरूपसंस्कारः । इति स्मृतिः ॥ तस्य क्रमः । शोभनदिने कृतस्नानः कृत- वृद्धिश्राद्धः पिता शुचिनामानमग्निं संस्थाप्यं विरूपाक्षजपान्तां कुशण्डिकां समाप्य प्रकृत- कर्म्मारम्भे प्रादेशप्रमाणां धृताक्तां समिधं तूष्णी- मग्नौ हुत्वा महाव्याहृतिहोमं कुर्य्यात् । ततः आज्येन तत्तन्मन्त्रैः पञ्चाहुतीर्जुहुयात् । ततः पञ्चप्राणानां होमः । ततो महाव्याहृतिहोमं कृत्वा प्रादेशप्रमाणां घृताक्तां समिधं तूष्णीमग्नौ हुत्वा प्रकृतं कर्म्म समाप्य उदीच्यं शाट्यायन- होमादिवामदेव्यगानान्तं कर्म्म निर्व्वर्त्य मन्त्रेण कुमारस्य मुखे अन्नं दद्यात् । ततः कर्म्मकार- यितृब्राह्मणाय दक्षिणां दद्यात् । इति भवदेव- भट्टः ॥ तस्य विहितदिनादि यथा, -- “ततोऽन्नप्राशनं षष्ठे मासि कार्य्यं यथाविधि । अष्टमे वाथ कर्त्तव्यं यद्वेष्टं मङ्गलं कुले” ॥ षष्ठ इति मुख्यः कल्पः प्रागुक्तन्यायात् । कृत्य- चिन्तामणौ । “अन्नस्य प्राशनं कार्य्यं मासि षष्ठेऽष्टमे बुधैः । स्त्रीणान्तु पञ्चमे मासि सप्तमे प्रजगौ मुनिः ॥ द्वादशीसप्तमीनन्दारिक्तासु पञ्चपर्ब्बसु । बलमायुर्यशो हन्यात् शिशूनामन्नभक्षणं” ॥ भुजबलभीमे । “षष्ठे मासि निशाकरे शुभकरे रिक्तेतरे वा तिथौ सौम्यादित्यसितेन्दुजीवदिवसे पक्षे च कृष्णेतरे । प्राजेशादिति पौष्णवैष्णवयुगैर्हस्तादिषट्कोत्तरै- राग्नेयाप्पतिपित्र्यभैश्च नितरामन्नादिभक्षं शुभं” ॥ युगैरिति प्राजेशादौ प्रत्येकं सम्बध्यते । तथा- त्रापि तिथ्यादिविद्धमृक्षं विवर्ज्जयेत् । “ष्टषद्वन्द्वधनुर्म्मीनकन्यालग्नेऽन्नभक्षणं । त्रिकोणाष्टकयूकान्त्यग्रहा यद्वत्तथाफलं ॥ दुष्टः शशधरो लग्नात् षष्ठाष्टस्थोऽन्नभक्षणे” । मार्कण्डेयः । “देवता पुरतस्तस्य पितुरङ्कगतस्य च । अलङ्कृतस्य दातव्यमन्नं पात्रे च काञ्चने ॥ मध्वाज्यकनकोपेतं प्राशयेत् पायसं ततः । कृतप्राशनमुत्सङ्गे मातुर्ब्बालन्तु तं न्यसेत् ॥ देवाग्रतोऽथ विन्यस्य शिल्पभाण्डानि सर्व्वशः । शास्त्राणि चैव शस्त्राणि ततः पश्येत्तु लक्षणं ॥ प्रथमं यत् स्पृशेद्बालः शिल्पभाण्डं स्वयं तथा । जीविका तस्य बालस्य तेनैव तु भविष्यति” ॥ इति ज्योतिस्तत्त्वं ॥
