सामग्री पर जाएँ

अन्नादः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्नादः, पुं, (अन्नमत्ति भुङ्क्ते अन्न + अद् + अण् । विष्णुरन्नमन्नखादकश्च जगदभिन्नतया, तथाहि श्रुतौ “सदेव सौम्येदमग्र आसीदेकमेवाद्वितीय- मित्युपक्रम्य तदैक्षत बहु स्यां प्रजायेय इत्यादि शङ्करभाष्ये । “यज्ञान्तकृत् यज्ञगृह्यमन्नमन्नाद एव च” ।) विष्णुः । इति तस्य सहस्रनाममध्ये पठितः ॥ अन्नभोक्तरि त्रि ॥ (परान्नभोजनकारी ।)

"https://sa.wiktionary.org/w/index.php?title=अन्नादः&oldid=111864" इत्यस्माद् प्रतिप्राप्तम्