सामग्री पर जाएँ

अन्यथासिद्धिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्यथासिद्धिः, स्त्री, (अन्यथा अन्यप्रकारेण सिद्धिः ।) कार्य्याव्यवहितपूर्ब्बवर्त्तित्वे सति कार्य्यानुत्पादकत्वं । सा पञ्चविधा । यथा । यत्काय्यं प्रति कारणस्य पूर्ब्बवर्त्तिता येन रूपेण गृह्यते तत्कार्य्यं प्रति तद्रूपमन्यथासिद्धं । यथा घटं प्रति दण्डत्वं ॥ १ ॥ यस्य स्वातन्त्र्येण अन्वयव्यतिरेकौ न स्तः किन्तु कारणमादायान्वयव्यतिरेकौ तदन्यथासिद्धं । यथा घटं प्रति दण्डरूपं ॥ २ ॥ अन्यं प्रति पूर्ब्बवर्त्तितां गृहीत्वैव यस्य यत्कार्य्यं प्रति पूर्ब्बवर्त्तित्वं गृह्यते तस्य तत्कार्य्यं प्रति अन्यथासिद्धत्वं । यथा घटा- दिकं प्रति आकाशस्य ॥ ३ ॥ यत्कार्य्यजनकं प्रति पूर्ब्बवर्त्तित्वं गृहीत्वैव यस्य यत्कार्य्यं प्रति पूर्ब्बवर्त्तित्वं गृह्यते तस्य तत्काय्यं प्रति अन्यथासिद्धत्वं । यथा कुलालपितुर्घटं प्रति ॥ ४ ॥ अवश्यकॢप्तनियत- पूर्ब्बवर्त्तिनएव कारणत्वसम्भवे तद्भिन्नमन्यथा- सिद्धं । यथा घटं प्रति रासभादिः ॥ ५ ॥ इति सिद्धान्तमुक्तावली ॥

"https://sa.wiktionary.org/w/index.php?title=अन्यथासिद्धिः&oldid=111879" इत्यस्माद् प्रतिप्राप्तम्