सामग्री पर जाएँ

अन्यपूर्व्वा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्यपूर्व्वा, स्त्री, (अन्यः पूर्व्वो यस्याः सा ।) पौनर्भवा कन्या । एकस्मै वागादिना दत्ता पुनरन्येन विवा- हिता कन्या । सा सप्तधा यथा, -- “सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः” । वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ॥ उदकस्पर्शिता या च या च पाणिगृहीतिका । अग्निं परिगता या तु पुनर्भूप्रसवा च या ॥ इत्येताः काश्यपेनोक्ता दहन्ति कुलमग्निवत् । इत्युद्वाहतत्त्वं ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्यपूर्व्वा¦ स्त्री अन्यः पूर्व्वो यस्याः। पूर्व्वपतिमरणादौ[Page0215-b+ 38] पश्चात् कृततद्भिन्नपतिकायां पुनर्भूस्त्रियाम्। अन्यपूर्व्वाच सप्तविधाः यथोक्तं नारदेन
“परपूर्ब्बाः स्त्रियस्त्वन्याःसप्त प्रोक्ता यथाक्रमम्। पुनर्भूस्त्रिबिधा तासां खैरिणीतु चतुर्व्विधा। कन्यैवाक्षतयोनिर्य्या पाणिग्रहण-दूषिता। पुनर्भूः प्रथमा प्रोक्ता पुनःसंस्कारकर्म्मणा। देशधर्म्मानवेक्ष्य स्त्री गुरुभिर्य्या प्रदीयते। उत्पन्नसाहसान्यस्मैसा द्वितीया प्रकीर्त्तिता”। (उत्पन्नसाहसा उत्पन्नव्यभिचारा)।
“असत्सु देवरेषु स्त्री बान्धवैर्य्या प्रदीयते। सवर्णाय सपि-ण्डाय सा तृतीया प्रकीर्त्तिता”। स्त्री प्रसूताऽप्रसूता वापत्यावेव तु जीवति। कामार्थमाश्रयेदन्यम्प्रथमा स्वैरिणीतु सा। कौमारम्पतिमुत्सृज्य या त्वन्यं पुरुषं श्रिता। पुनः पत्युर्गृहं यायात्सा द्वितीया प्रकीर्त्तिता। मृतेभर्तरि तु प्राप्तान् देवरादीनपास्य या। उपगच्छेत्परंकामात्सा तृतीया प्रकीर्त्तिता। प्राप्ता देशाद्धनक्रीताक्षुत्पिपासातुरा तु या। तवाहमित्युपगता सा चतुर्थीप्रकीर्त्तिता इति”। अन्या अपि सप्तविधाः कात्यायनेनदर्शिता यथा
“सप्त पौनर्भवाः कन्या वर्जनीयाः कुला-धमाः। वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला। उद-कस्पर्शिता या च या च पाणिगृहीतिका। अग्निं परिगताया च पुनर्भूप्रभवा च या। इत्येताः काश्यपेनोक्ता दहन्तिकुलमग्निवत्” इति। अन्यपूर्ब्बावेदनञ्च युगान्तरविषय-मिति माधवाचार्य्यादयः
“नष्टे मृते प्रव्रजिते क्लीवे वापतिते पतौ। पञ्चस्वापत्सु नारीणां पतिरन्योविधीयतेपराशरवाक्यस्य तेन युगान्तरविषयकत्वस्य व्यवस्थाप्रनात्। कलियुगेऽपि तत्कर्त्तव्यतेति आधुनिकामन्यन्ते तत्र बला-बले तत्तद्ग्रन्थे एवावगन्तव्ये। अन्यस्वामिकमात्रेऽपि
“मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः। तथाप्यनन्य-पूर्ब्बेव तस्मिन्नासीत् वसुन्धरेति रघुः। ततः अर्शआदित्वादच्,अन्या पूर्व्वा यस्य वा। तत्परिणेतरि पुनर्भूपतौ पु॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्यपूर्व्वा¦ f. (-र्व्वा) A girl previously promised or betrothed to one and married to another. E. अन्य, and पूर्व्व prior.

"https://sa.wiktionary.org/w/index.php?title=अन्यपूर्व्वा&oldid=201611" इत्यस्माद् प्रतिप्राप्तम्