सामग्री पर जाएँ

अन्योन्याश्रय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्योन्याश्रयः, त्रि, (अन्योन्यमाश्रयति, अन्योन्य + आ + श्रि + पचाद्यच् ।) परस्परज्ञानसापेक्षज्ञा- नाश्रयः । इति स्मार्त्ताः ॥ स्वग्रहसापेक्षग्रहसापेक्ष- ग्रहकः । इति तार्किकाः ॥ तर्कविशेषः । तस्य लक्षणं । स्वापेक्षपेक्षितत्वनिबन्धनप्रसङ्गत्वं । अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च ग्राह्या । तत्राद्या यथा । घटोऽयं यद्येतद्घटज्ञानजन्यज्ञान- विषयः स्यात् तदैतद्घटभिन्नः स्यात् । द्वितीया यथा । घटोऽयं यद्येतद्घटजन्यजन्यः स्यात् तदै- तद्घटजन्यभिन्नः स्यात् । तृतीया यथा । घटोऽयं यद्येतद्घटवृत्तिवृत्तिः स्यात् तथात्वेनोपलभ्येत । इति जगदीशः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्योन्याश्रय¦ त्रि॰ अन्योन्यमाश्रयतीति आ + श्रि--अच्। परस्परसापेक्षे। न्यायमते तर्कविशेषे पु॰। स च एकस्यज्ञानादिजननाय यथाऽन्यज्ञानाद्यपेक्षा तथातस्य ज्ञानादिजननायेतरस्य ज्ञानापेद्यक्षेति स्वापेक्षापेक्षित्वनिमित्तकोऽ-निष्टः प्रसङ्गः। अपेक्षा च ज्ञप्तौ, उत्पत्तौ, स्थितौ चग्राह्या तत्र ज्ञप्तौ
“घटोऽयम् यद्येतद्घटज्ञानजन्यज्ञान-विषयः स्यात् तदैतद्घटभिन्नः स्यात् तत्र स्वज्ञानस्यस्वज्ञानजन्यत्वेनानिष्टं प्रसज्येत स्वापेक्षापेक्षिज्ञानत्वात्स्वापेक्षित्घटज्ञानरूपविषयस्य तज्जनकज्ञानविषयाद्भेद-रूपमनिष्टञ्च सज्येत अतोघटस्य घटभेदप्रसङ्गोऽनिष्टः। उत्पत्तौ यथा घटोऽयं यद्येतद्घटजन्यजन्यः स्यात्तदैतद्घटभिन्नः स्यादित्यादि। एतद्घटस्य उत्पत्तौएतद्घटजन्यसापेक्षत्वे कारणस्य कार्य्याद्भेदनियतयाएतद्घटस्य एतद्घटभेदरूपोऽनिष्टःप्रसङ्गः। स्थितौ यथाघटोऽयं यद्येतद्घटवृत्तिवृत्तिः स्यात् तदा तथात्वेनोप-लभ्येत न च तथा उपलभ्यते तथात्वे च घटस्य घट-वृत्तित्वापक्षिरनिष्टा प्रसज्येत। एतेषु ज्ञप्तिविपयतयैवप्रायशोऽनिष्टप्रसङ्गः। सर्वत्र तन्मूलकमेव स्वग्रहसापेक्षग्रहसापेक्षग्रहकत्वमन्योन्याश्रयत्वं तत्र तत्र व्यवह्रियते। अतएव परस्परज्ञानसापेक्षज्ञानाश्रयोऽन्योन्याश्रय इतिस्मार्तैरुक्तम्। एवञ्च अन्योन्यपदस्य तज्ज्ञाने, तदुत्पत्तौ,त्तस्थितौ च लक्षणा तदाश्रयः अन्योन्याश्रय इतित्रितयसाधारणः विग्रहः। [Page0217-b+ 38]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्योन्याश्रय¦ m. (-यः) Mutual or reciprocal connexion or dependance. E. अन्योन्य, and आश्रय support.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्योन्याश्रय/ अन्योन्या m. mutual or reciprocal support or connection or dependance

अन्योन्याश्रय/ अन्योन्या m. mutually depending.

"https://sa.wiktionary.org/w/index.php?title=अन्योन्याश्रय&oldid=486779" इत्यस्माद् प्रतिप्राप्तम्