अन्योन्याश्रयः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्योन्याश्रयः, त्रि, (अन्योन्यमाश्रयति, अन्योन्य + आ + श्रि + पचाद्यच् ।) परस्परज्ञानसापेक्षज्ञा- नाश्रयः । इति स्मार्त्ताः ॥ स्वग्रहसापेक्षग्रहसापेक्ष- ग्रहकः । इति तार्किकाः ॥ तर्कविशेषः । तस्य लक्षणं । स्वापेक्षपेक्षितत्वनिबन्धनप्रसङ्गत्वं । अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च ग्राह्या । तत्राद्या यथा । घटोऽयं यद्येतद्घटज्ञानजन्यज्ञान- विषयः स्यात् तदैतद्घटभिन्नः स्यात् । द्वितीया यथा । घटोऽयं यद्येतद्घटजन्यजन्यः स्यात् तदै- तद्घटजन्यभिन्नः स्यात् । तृतीया यथा । घटोऽयं यद्येतद्घटवृत्तिवृत्तिः स्यात् तथात्वेनोपलभ्येत । इति जगदीशः ॥
