सामग्री पर जाएँ

अन्वच्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्वक् [च्] त्रि, (अनु पश्चात् अञ्चति गच्छति अनु + अञ्च + क्विन्) पश्चाद्गामी । इत्यमरः ॥ (अनु पदं । पश्चात् । “तां देवतापित्रतिथिक्रियार्था- मन्वक् ययौ मध्यमलोकपालः” । इति रघुवंशे ।)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्वच्¦ त्रि॰ अनु + अन्च--क्विन्। अनुगामिनि, स्त्रियांङीप्।
“समानबन्धू अमृते अनूची” ऋ॰

१ ,

११

३ ,

२ ,अनूची अन्वञ्चन्त्याविति भा॰।
“तस्मादिमे अन्वञ्चश्चतीर्य्यञ्चश्च” श॰ ब्रा॰। पशुश्चान्वक् कात्या॰

६ ,

५ ,

६ । अनु पश्चादञ्चतीति तद्व्या॰। अनुपदे न॰ अव्य॰अमरः।
“अन्वग्ययौ मध्यमलोकपालैति” रघुः अनुपदंयथावित्यर्थः स्वरादेराकृतिगणत्वेन तद्गणीयः अनुमानेअव्य॰ प्रो॰ मनो॰।

"https://sa.wiktionary.org/w/index.php?title=अन्वच्&oldid=201699" इत्यस्माद् प्रतिप्राप्तम्