अन्वष्टका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्वष्टका, स्त्री, (अष्टौ परिमाणान्यस्याः, अष्टन् + कन्, इत्वाभावः, अष्टकामनुगता प्रादिसमासः ।) अष्टकापश्चात्तिथिः । सा तु गौणचान्द्रपौषमाघ- फाल्गुनाश्विनमासानां कृष्णनवमी । तत्र सा- ग्नीनां मातृकश्राद्वं । इति श्राद्धविवेकः ॥ तत्र साग्निकर्त्तव्यमातृपक्षश्राद्धं । यथा शङ्खः । “पित्रादित्रिकपत्नीषु भोज्या मातॄः प्रतिद्विजाः । स्त्रीणामेव तु तद्यस्मान्मातृश्राद्धमिहोच्यते” ॥ एतच्चान्वष्टकाश्राद्धं साग्निमात्रेण कर्त्तव्यं । तथा च विष्णः । अन्वष्टकास्वष्टकावदग्नौ हुत्वा मात्रे पितामह्यै प्रपितामह्यै पूर्ब्बवद्ब्राह्मणान् भोजयित्वा इति । अत्र होमत्वादेवाग्निप्राप्तेरग्नि- ग्रहणं तन्नियमार्थं । न चाग्नौ करणहोमे विप्र- पाण्यादेर्व्विधानादत्रापि तथेति वाच्यं । प्रकृती- भूतश्राद्धविध्युक्तस्याधारान्तरस्य विकृतीभूतश्राद्धे विशेषविहिताधारेण बाधात् । शरमयवर्हिषा कुशमयवर्हिर्बाधवत् । न वा लौकिकाग्नौ होमः । “न पैत्रयज्ञियो होमो लौकिकाग्नौ विधीयते” । इति मनुवचनेन निषेधात् । श्राद्धचिन्तामणा- वप्येवं । इति श्राद्धतत्त्वं ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्वष्टका¦ स्त्री अनुगतोऽष्टकाम्। श्राद्धकालभेदे स च अग्र-हायण्या ऊर्द्ध्वं तिस्रः कृष्णाष्टम्यः अष्टकाः, तदुत्तरवर्त्ति-न्यस्तिस्रः कृष्णनवम्यः तद्रूपः। ताश्च साग्निकस्य मात्रादि-श्राद्धकालः। तथाहि
“अष्टका योर्द्ध्वमाग्रहायण्यास्त-मिस्राष्टमीति” गोभि॰।
“पितृदानाय मूले स्युरष्टकास्तिस्रएव च कृष्णपक्षे वरिष्ठाश्चेति” ब्रह्मपु॰। आश्वलायन-गृह्ये तु ताश्चतस्र इत्युक्तम् यथा। हेमन्तशिशिरयोश्चतु-र्ण्णामपरपक्षाणामष्टमीष्वष्टका” इति।
“एकस्यां चतुसृषु वेति” विकल्पश्रंवणात् सामर्थ्यभेदेन एकस्यां तिसृषु चतुर्षु वाअष्टकाश्राद्धम् अन्वष्टकाश्राद्धं च कार्य्यमिति गम्यते। तत्रपशुकल्पस्थालीपाकाद्यङ्गजातमुक्त्वा
“अपरेद्युरान्वकक्यमिति” सूत्रेण तदुत्तरवर्त्तिकृष्णनवमीसु तद्विहितम् तच्च मात्रादि-भ्योऽपि देयम्
“पितृभ्यश्च हुत्वा मन्थवर्ज्जमुस्त्रीभ्यश्च सुरा-चाममिति” तत्रैवोक्तेः मनुनाऽपि
“पितॄंश्चैवाष्टकास्वर्चेन्नित्य-मन्वष्टकासु” चेत्युक्तम् अत्र पितृपदमष्टकापक्षे स्वपरम्, अन्वका-[Page0219-a+ 38] पक्षे
“स्त्रिया पुंवत्” इत्येकशेषेण मातृपितामहीप्रपिता-महीसहितपित्रादिपरम्। एवञ्च आश्वलायनगृह्ये मनुवचनेच पित्रादेरपि देवतात्वश्रवणात् मात्रादिमात्रदैवत्यं रघु-नन्दनोक्तं चिन्त्यं वस्तुतः शाखिभेदेन सपत्नीकपितृश्राद्धंमात्रादिदेवताकं वा तच्छाद्धमिति व्यवस्था।
“पित्रादि-त्रिकपत्नीषु भोज्या मातॄः प्रति द्विजाः। स्त्रीणामेव तुतद्यस्मान्मातृश्राद्धमिहोच्यते” शङ्खवचनन्तु तासां वृथक्-श्राद्धविधानार्थम्। एतच्च अन्वष्टकाश्राद्धं साग्निकमात्रेणकर्त्तव्यम्। तथा च विष्णुः।
“अन्वष्टकाष्वष्टकावदग्नौहुत्वा मात्रे पितामह्यै प्रपितामह्यै पूर्ब्बवद्ब्राह्म-णान् भोजयित्वा” इति। अत्र होमत्वदेवाग्निप्राप्तेरग्नि-ग्रहणं तन्नियमार्थम्। न चाग्नौकरणहोमे विप्रपाण्यादेर्व्विधानादत्रापि तथेति वाच्यम् प्रकृतिभूतश्राद्धविध्यु-क्तस्याधारान्तरस्य विकृतीभूतश्राद्धे विशेषविहिताधारेणबाधात्। न वा लौकिकाग्नौ होमः
“न पैत्र्ययज्ञियोहोमोलौकिकाग्नौ विधीयते” इति मनुवचनेन निषे-धात्। श्राद्धचिन्तामणावप्येवम्। श्रा॰ त॰ रघुनन्दनः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्वष्टका¦ f. (-का) A Sra4dd'ha or funeral ceremony performed on the ninth day of the month's Phausha, Ma4gha, Pha4lguna or A'swina. It is the maternal Sra4dd'ha for those who preserve the sacred fire. E. अनु after, and अष्टका the eighth day.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्वष्टका [anvaṣṭakā], [अनुगतो$ष्टकाम्] The 9th day of the dark half of the three months following the full moon in मार्गशीर्ष, i. e. पौष, माघ and फाल्गुन; पितॄंश्चैवाष्टकास्वर्चेन्नित्यमन्व- ष्टकासु च Ms.4.15.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्वष्टका/ अन्व्-अष्टका f. the ninth day in the latter half of the three (or four) months following the full moon in आग्रहायण, पौष, माघ(and फाल्गुन) Mn. iv , 150
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the ninth day in the latter half of the three (or four) months following the full moon in अग्रहायन, पौष, माघ, (फाल्गुन)। The fourth month is men- tioned in the पुराण. वा. ८१. 4, 5.
Vedic Rituals Hindi
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्वष्टका स्त्री.
अष्टका के बाद वाला दिन (अर्थात् नवम दिन, आ.गृ.सू. 22.9), जिस पर मासिक श्राद्ध अथवा पिण्डपितृयज्ञ के रूप में पितरों के लिए कृत्य सम्पादित किया जाता है। अ 3 अथवा 4 अष्टकाओं में प्रत्येक का अनुगमन करता है----सुरा एवं चावल के झाग (माड़) को अर्पित करता है। 9 अथवा विषम संख्या में ब्राह्मणों को भोजन दिया जाता है, पकाया हुआ गोमांस (गाय के विशिष्ट अङ्गों का) स्त्री पूर्वज के लिए, पार.गृ.सू. 3.3.1०-11।