सामग्री पर जाएँ

अन्वाहितम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्वाहितम्, त्रि, (अनु + आ + धा + कर्म्मणि क्त ।) यदेकस्य हस्ते निहितं द्रव्यं तेनापि पश्चादन्यस्य हस्ते स्वामिने देहीति निहितं तत् । इति मिताक्षरा ॥ (“याचितान्वाहितन्यासनिक्षेपादिष्वयं विधिः” । इति याज्ञवल्क्यः, -- “एष एष विधिर्दृष्टो याचितान्वाहितादिषु” ॥ इति नारदः ।) गच्छित द्रव्य ताहार स्वामिके दिते अन्यहस्ते अर्पणकरा इति भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=अन्वाहितम्&oldid=111932" इत्यस्माद् प्रतिप्राप्तम्