अन्वितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अन्वितः, त्रि, (अनु + इण् + क्त ।) युक्तः । मिलितः । इति जटाधरः ॥ कृतान्वयपदादिः । यथा, -- “पदार्थान्तरैरन्वितानां सङ्केतो गृह्यते” । इति काव्यप्रकाशः ॥ (पदानां योग्यताकाङक्षादिरूपान्वयसहितः । परस्परं सम्बद्धः । “वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः” ॥ इति साहित्यदर्पणे ।)
