सामग्री पर जाएँ

अन्वेषणा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्वेषणा, स्त्री, (अनु + इष् + णिच् + भावे युच् तस्य अनः ततः टाप् ।) तर्कादिना यथाबोधितधर्माद्य- न्वेषणं । अन्वेषणमात्रं । तत्पर्य्यायः परोष्टिः २ पर्य्येषणा ३ गवेषणा ४ । इत्यमरः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्वेषणा स्त्री।

धर्माद्यन्वेषणम्

समानार्थक:पर्येषणा,परीष्टि,अन्वेषणा,गवेषणा

2।7।32।1।3

पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा। सनिस्त्वध्येषणा याच्ञाभिशस्तिर्याचनार्थना॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अन्वेषणा¦ स्त्री अनुगता एषणा
“इषेरनिच्छार्थकस्येति” पा॰ युच् टाप्। तत्त्वानुसन्धाने तर्कादिना ज्ञातपदार्थस्यशुद्ध्यर्थं युक्त्यादिना समर्थने गवेषणे च।

"https://sa.wiktionary.org/w/index.php?title=अन्वेषणा&oldid=201904" इत्यस्माद् प्रतिप्राप्तम्