अपचितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपचितः, त्रि, (अप + चाय + पूजार्थे कर्म्मणि क्तः । अपचितश्चेति पाणिनिसूत्रेन पक्षे चायस्थाने चिभाबः । अप + चि + क्तः ।) हीनः । व्ययितः । अवयवाद्यपचययुक्तः । क्षीणः । कृशः । “अपचित- मपि गात्रं व्यायतत्वादलक्ष्यं” । इति शाकुन्तले ।
