सामग्री पर जाएँ

अपथम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपथम्, क्ली, व्य, (न प्रशस्तः पन्थाः मार्गः, नञ्स- मासः । नास्ति पन्थाः प्रशस्तः मार्गो यत्र तत् । प्रशस्तवर्त्मशून्ये नगरादौ ।) अपन्थाः । मार्ग एव यो न भवति तत् । इत्थमरः । योनिः । इति शब्दरत्नावली । (विमार्गः । कुपथः । असम्मार्गः । साधुविगर्हितः पन्थाः । “अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः” । इति रघुवंशे । “न कश्चित् वर्णानामपथमपकृष्टोऽपि भजते” । इति शाकुन्तले ।)

"https://sa.wiktionary.org/w/index.php?title=अपथम्&oldid=112005" इत्यस्माद् प्रतिप्राप्तम्