सामग्री पर जाएँ

अपथ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपथ्यम्, त्रि, (पथ्ये वैद्योक्तभोजनादिनियमाय नीत्यु- क्ताचाराय वा हितं यत् ततो नञ्समासः ।) पथ्यभिन्नं । अहितं । यथा, -- “यत्पथ्यं यदपथ्यञ्च वक्ष्यते रक्तपित्तिनां” । इति पथ्यापथ्यग्रन्थः ।

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपथ्य¦ न॰ पथ्ये वैद्यकोक्तभोजनादिनियमाय नीत्युक्ताचारायवा हितम् यत् न॰ त॰। वैद्यकोक्तिमुल्लङ्घ्य, अनिष्टेमोजनादौ अहिताचारे च
“अकार्य्यं कार्य्यसङ्काशमपथ्यंपथ्यमस्मेतम्” रामा॰।
“संतापयन्ति किमपथ्यभुजंन रोगा” इति वै॰। पथ्यापथ्ये च सुश्रुते दर्शिते यथा
“अथातो हिताहितीयमध्यायं व्याख्यास्यामः। यद्वायोःपथ्यं तत्पित्तस्यापथ्यमित्यनेन हेतुना न किञ्चिद्द्रव्य-मेकान्तेन हितमहितं वास्तीति” केचिदाचार्य्या ब्रुवतेतत्तु न सम्यक्। इह खलु यस्माद् द्रव्याणि स्वभावतःसंयोगतश्चैकान्तहितान्येकान्ताहितानि हिताहितानिच भवन्ति। तत्रैकान्तहितानि जातिसात्म्यात् सलिल-घृतदुग्धौदनप्रभृतीनि। एकान्ताहितानि दहनपचन-मारणादिषु प्रवृत्तान्यग्निक्षारविषादीनि। संयोगादप-राणि विषतुल्यानि भवन्ति। हिताऽहितानि तु यद्वायोःपथ्यं तत्पित्तस्यापथ्यमित्यतः सर्व्वप्राणिनामयमाहारार्थंवर्ग उपदिश्यते। तद्यथा रक्तशालिषष्टिककङ्गुकमुकु-न्दकपाण्डुकपीतकप्रमोदककालकाशनकपुष्पककर्दमकशकुना-हृतसुगन्धककलमनीवारकोद्रवोद्दालकश्यामाकगोधूमवेणुयवा-दयः। एणहरिणकुरङ्गमृगमातृकाश्वदंष्ट्राकरालक्रकर-कपोतलावतित्तिरिकपिञ्जलवर्त्तीरवर्त्तिकादीनां मांसानि। मुद्गवनमुद्गमकुष्ठकलायमसूरमङ्गल्यचणकहरेण्वाढकीसतीनाः। चिल्लीवास्तूकसुनिषण्णकजीवन्तीतण्डुलीयकमण्डूकपर्ण्यः। गव्यं घृतं सैन्धवदाडिमामलकमित्येष वर्गः सर्वप्राणिनांसामान्यतः पथ्यतमः। तथा ब्रह्मचर्य्या-निवातशयनो-ष्णोदकनिशास्वप्नव्यायामाश्चैकान्ततः पथ्यतमाः। एकान्त-हितान्येकान्ताहितानि प्रागुपदिष्टानि॥ हिताहितानितु यद्वायोः पथ्यं तत्पित्तस्यापथ्यमिति॥ संयोगतस्त्वप-राणि विषतुल्यानि भवन्ति। तद्यथा। वल्लीफलकवक-करीराम्लफललवणकुलत्थपिण्याकदधितैलविरोहिपिष्टशुष्कशाकाजाविकमांसमद्यजाम्बवचिलिचिममत्स्यगोधावराहांश्चनैकध्यमश्नीयात् पयसा। ( रोगं सात्म्यञ्च देशञ्च कालं देहञ्चबुद्धिमान्। अवेक्ष्या-ग्न्यादिकान् भावान् रोगवृत्तेः प्रयोजयेत्। अवस्थान्तर-[Page0227-a+ 38] बाहुल्याद्रोगादीनां व्यवस्थितम्। द्रव्यं नेच्छन्ति भिषजइच्छन्ति स्वस्थरक्षणे। द्वयोरन्यतरादाने वदन्ति विषदुग्ध-योः। दुग्धस्यैकान्तहिततां विषमेकान्ततोऽहितम्॥ एवंयुक्तरसाद्येषु द्रव्येषु सलिलादिषु। एकान्तहिततां विद्धिवत्स! सुश्रुत! नान्यथा॥ ( अतोऽन्यान्यपि संयोगादहितानि वक्ष्यामः॥ न चविरूढधान्यैर्व्वसामधुपयोगुडमाषैर्व्वा ग्राम्यानूपोदकपिशि-तादीनि चाभ्यवहरेत्। न पयोमधुभ्यां रोहिणीशाकंजातु शाकं वाश्नीयात्। बलाकां वारुणीकुल्माषाभ्याम्। काकमाचीं पिप्पलीमरिचाभ्यां, नाडीभङ्गशाककुक्कुटदधीनिच नैकध्यम्। मधु चोष्णोदकानुपानं पित्तेन वा मांसानि। सुराकृशरपायसांश्च नैकध्यम्। सौवीरकेण सह तिल-शष्कुलीम्। मत्स्येः सहेक्षुविकारान्॥ गुडेन काकमाचीं,मधुना मूलकं, गुडेन वाराहं, मधुना च सह विरुद्धम्। क्षीरेण मूलकम्। आम्रजाम्बवश्वाविच्छूकरसगोधाश्च सर्व्वांश्च-मत्स्यान्विशेषेण चिलिचिमं पयसा। कदलीफलं ताल-फलेन, पयसा, दध्ना, तक्रेण वा। लकुचफलं पयसा, दध्ना,माषसूपेन वा मधुना, घृतेन च प्राक् पयसः पयसोऽन्ते वा। ( अतः कर्म्मविरुद्धान् वक्ष्यामः॥ कपोतान् सर्षपतैल-भृष्टान्नाद्यात्। कपिञ्जलमयूरलावतित्तिरिगोधाश्चैरण्ड-दार्वग्निसिद्धा एरण्डतैलसिद्धा वा नाद्यात्। कांस्यभाजनेदशरात्रपर्य्युषितं सर्पिर्म्मधु चोष्णैरुष्णे वा। मत्स्यपरि-पचने शृङ्गवेरपरिपचने वा सिद्धां काकमाचीम्। तिल-कल्कसिद्धमुपोदिकाशाकम्। नारिकेलेन वराहवसापरि-भृष्टां बलाकाम्। भासमङ्गारशूल्यं नाश्नीयादिति॥ ( अतो मानविरुद्धान् वक्ष्यामः॥ मध्वम्बुनी मधुसर्पिषीमानतस्तुल्ये नाश्नोयात्। स्नेहौ मधुस्नेहौ जलस्नेहौवा विशेषादान्तरीक्षोदकानुपानौ। अत ऊर्द्ध्वंरसद्वन्द्वानि रसतो वीर्य्यतो विपाकतश्च विरुद्धानिवक्ष्यामः। तत्र मधुराम्लौ रसवीर्य्यंविरुद्धौ मधुरलवणौ चमधुरकटुकौच सर्वतः। मधुरतिक्तौ रसविपाकाभ्यां मधुर-कषायौ चाम्ललवणौं रसतः। अम्लकटुकौ रसविपाकाभ्यामम्ल-तिक्तावम्लकषायौ च सर्व्वतः। लवणकटुकौ रसविपाकाम्यांलवणतिक्तौ लवणकषायौ च सर्वतः। कटुतिक्तौ रसवी-र्य्याभ्यां कटुकषायौ तिक्तकषायौ च रसतः। तरतमयोग-युक्तांश्च भावानतिरुक्षानतिस्निग्धानत्युष्णानतिशीतानित्येव-मादीन् विवर्जयेत्। भवन्ति चात्र॥ विरुद्धान्येवमादीनि रसवीर्य्यविपाकतः। तान्येकान्ता-[Page0227-b+ 38] हितान्येव शेषं विद्याद्धिताहितम्॥ व्याधिमिन्द्रियदौर्बल्यंमरणञ्चाधिगच्छति। विरुद्धरसवीर्य्यादीन् भुञ्जानोऽनात्मवा-न्नरः॥ यत्किञ्चिद्दोषमुत्क्लेश्य भुक्तं कायान्न निर्हरेत्। रसादिष्वयथार्थं वा तद्विकाराय कल्पते॥ विरुद्धाशनजान्रोगान् प्रतिहन्ति विरेचनम्। वमनं शमनं वापि पूर्ब्बंवा हितसेवनम्॥ सात्म्यतोऽल्पतया वापि दीप्ताग्नेस्तरु-णस्य च। स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत्॥ व्यायामशोलो बलवान् शिशुश्च स्निग्धोऽग्निमांश्चापि महा-शनश्च। आप्नोति रोगान्न विरुद्धजातानभ्यासतो वाऽल्प-तया च जन्तुः। अथ वातगुणान् वक्ष्यामः॥ ( पूर्ब्बः समधुरः स्निग्धो लवणश्चैव मारुतः। गुरुविदाहजननो रक्तपित्ताभिवर्द्धंनः॥ क्षतानां विष-जुष्टानां बलिनः श्लेष्मलाश्च ये। तेषामेव विशेषेणसदा रोगविवर्द्धनः॥ वातलानां प्रशस्तश्च श्रान्तानांकफशोषिणाम्। तेषामेव विशेषेण व्रणक्लेदविवर्द्धनः॥ मधुरश्चाविदाही च कषायानुरसोलघुः। दक्षिणो मारुतःश्रेष्ठश्चक्षुष्यो बलवर्द्धनः। रक्तपित्तप्रशमनो न च वात-प्रकोपणः॥ विषदो रूक्षपरुषः स्वरः स्नेहबलापहः। पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः। सद्यः प्राण-क्षयकरः शोषणस्तु शरीरिणाम्॥ उत्तरो मारुतःस्निग्धो मृदुर्म्मधुर एव च। कषायानुरसः शीतो दोषा-णामप्रकोपणः॥ तस्माच्च प्रकृतिस्थानां क्लेदनो बलवर्द्धनः। क्षीणक्षयविषार्त्तानां विशेषेणतु पूजितः” इति पृ॰

१ ,

२० ।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपथ्य¦ mfn. (-थ्यः-थ्या-थ्यं)
1. Unsuitable, inconsistent.
2. (In medicine) Contra-indicated, unfit as food or drink in particular complaints. E. अ neg. पथ्य suitable.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपथ्य [apathya], a. [न. त.]

Unfit, unsuited, improper, inconsistent, obnoxious; अकार्यं कार्यसंकाशमपथ्यं पथ्यसंमितम् Rām.

(In medicine) Unwholesome, unsalutary (as food, regimen &c.); सन्तापयन्ति कमपथ्यभुजं न रोगाः H.3.11; भवति पुरुषस्य व्याधिर्मरणं सेविते अपथ्ये, राजा- पथ्ये पुनः सेविते सकलकुलं नश्यति Mu.6.

Bad, unlucky.-Comp. -अशिन् a. One taking an unwholesome food; शत्रवो नीतिहीनानां यथापथ्याशिनां गदाः Śukra 1.13. -कारिन् a. an offender; एवमपथ्यकारिषु तीक्ष्णदण्डो राजा; राज ˚री क्षपणकः; अनुभव राजापथ्यकारित्वस्य फलम् Mu.1 an enemy or traitor to the king.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपथ्य/ अ-पथ्य mfn. unfit

अपथ्य/ अ-पथ्य mfn. unsuitable

अपथ्य/ अ-पथ्य mfn. inconsistent

अपथ्य/ अ-पथ्य mfn. (in med.) unwholesome as food or drink in particular complaints.

"https://sa.wiktionary.org/w/index.php?title=अपथ्य&oldid=486929" इत्यस्माद् प्रतिप्राप्तम्