अपदेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदेशः, पुं, (अप + दिश् + घञ् । स्थानं ।) निमित्तं । शरव्यं । स्वरूपाच्छादनं । तत्पर्य्यायः । २ व्याजः । ३ लक्ष्यं । इत्यमरः । परानिष्टकारिभिन्नशठता । इति महाभारतटीका । (ख्यातिः । कीर्त्तिः । छलं । “रक्षापदेशान्मुनिहोमधेनो- र्वन्यान् विनेष्यन्निव दुष्टसत्त्वान्” । इति रघुवंशे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदेश पुं।

स्वरूपाच्छादनम्

समानार्थक:व्याज,अपदेश,लक्ष्य

1।7।33।1।2

व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्. घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता॥

पदार्थ-विभागः : , क्रिया

अपदेश पुं।

लक्ष्यम्

समानार्थक:लक्ष,लक्ष्य,शरव्य,अपदेश

3।3।216।2।1

कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु। पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

अपदेश पुं।

निमित्तम्

समानार्थक:अपदेश

3।3।216।2।1

कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु। पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

अपदेश पुं।

व्याजम्

समानार्थक:अपदेश,लक्ष

3।3।216।2।1

कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु। पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदेश¦ पु॰ अप + दिश--घञ्। लक्ष्ये, स्वरूपाच्छादनरूपे,छले, निमित्ते स्थाने च।
“रक्षापदेशान्मुनिहोमधेनोरिति” रघुः।
“न धर्म्मस्यापदेशेन पापं कृत्वा व्रतं चरे-दिति”।
“भक्ष्यभोज्यापदेशैश्च ब्राह्मणानां च दर्शनैः”।
“शौर्य्यकर्म्मापदेशेनेति”
“साक्ष्यभावे प्रणिधिभिर्वयोरूप-समन्वितैः। अपदेशैश्च संन्यस्य हिरण्यं तस्य तत्त्वत इति” चमनुः। उपदेशे च।
“दीक्षाया अपदेशात्” कात्या॰

२२ ,

१२

२ । अपदेश उपदेश इत्यर्थः। अपकृष्टोदेशः प्रा॰ब॰ वा कृष्टपदलोपः। अपकृष्टदेशे, अनुचितस्थाने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदेश¦ m. (-शः)
1. Evasion, prevarication.
2. Disguise by dress, &c.
3. Place, quarter.
4. A butt or mark.
5. Cause.
6. Fame, reputation.
7. A contrivance, a pretence, a pretext. E. अप ill, badly, &c. and दिश to shew. with घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदेशः [apadēśḥ], 1 Statement, adducing (उपदेश); pointing out, mentioning the name of; अपदेशो मे जनकान्नोत्पत्ति- र्वसुधातलात् Rām.6.116.16. नैष न्यायो यद्दातुरपदेशः Dk.6; हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् Nyāya S.; दीक्षाया अप- देशात् Kāty.

(a) A pretext, pretence, plea, excuse; contrivance; अवेक्ष्यमाणा शनकैर्जगाम कृत्वाग्निहोत्रस्य तदापदेशम् Mb.3.111.18 केनापदेशेन पुनराश्रमं गच्छामः Ś.2; रक्षापदेशा- न्मुनिहोमधेनोः R.2.8; व्रतापदेशोज्झितगर्ववृत्तिना V.3.12. (b) Guise, disguise, form; विकटदुष्टश्वापदापदेशकालगोचरं गता Māl.7; मन्त्रिपदापदेशं यौवराज्यम् Dk.11.

Statement of the reason, adducing a cause, the second (हेतु) of the five members of an Indian syllogism (according to the Vaiśeṣikas).

A butt, mark (लक्ष्य).

A place, quarter.

Refusal, rejection.

Fame, reputation.

Deceit.

(अपकृष्टो देशः) A bad or wrong place.

Danger or peril. cf. अपदेशः पदे लक्ष्ये स्यात् प्रसिद्धनिमित्तयोः । औदार्यशौर्यधैर्येषु निःसीमव्यपदेशयोः । Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदेश/ अप-देश m. assigning , pointing out Ka1tyS3r.

अपदेश/ अप-देश m. pretence , feint , pretext , disguise , contrivance

अपदेश/ अप-देश m. the second step in a syllogism( i.e. statement of the reason)

अपदेश/ अप-देश m. a butt or mark L.

अपदेश/ अप-देश m. place , quarter L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदेश पु.
(अप + दिश् + घञ्) निर्देश, का.श्रौ.सू. 22.1.14।

"https://sa.wiktionary.org/w/index.php?title=अपदेश&oldid=486941" इत्यस्माद् प्रतिप्राप्तम्