अपनोदनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपनोदनम्, क्ली, (अप + नुद् + भावे ल्युट् ।) खण्डनं । दूरीकरणं । यथा, -- “मानापनोदनविनोदनते गिरीशे” । इति श्रीहर्षः । (अपनुदति दूरी- करोति, अप + नुद् + कर्त्तरि बाहुल्यात् ल्युटि ।) खण्डकः । दूरीकारकः । “यथाश्वमेधः क्रुतुराट् सर्व्वपापापनोदनः । तथाघमर्षणं जप्यं सर्व्वपापापनोदनं” । इति मनुः ।)
