अपमानम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपमानम्, क्ली, (अप + मा + भावे ल्युट् ।) अनादरः । अमर्य्यादा । इति शब्दरत्नावली ॥ तत्पर्य्यायः । “स्यादवज्ञा परीहारः परिहारः पराभवः । अपमानं परिभवस्तिरस्कारस्तिरष्क्रिया । अवहेला च हेला म्यादवहेलनहेलने । क्षेपो निकारधिक्कारौ पर्य्यायः स्यादनादरे” ॥ इति शब्दरत्नावली ॥ * ॥ तस्य अप्रकाश्यत्वं यथा, -- “अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनञ्चापमानञ्च मतिमान्न प्रकाशयेत्” ॥ इति चाणक्यः ॥ (“अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः । स्वकार्य्यमुद्धरेत् प्राज्ञः कार्य्यध्वंसे हि मूढता”) ॥
