अपरत्वम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपरत्वम्, क्ली, (अपरस्य भावः भावे त्व ।) न्यायमते तत् द्विविधं । दैशिकं कालिकञ्च । दैशिकं यथा । अल्पसूर्य्यसंयोगज्ञानजन्यगुणः । तस्यासमवायि- कारणं दिक्संयोगः ॥ कालिकं यथा ॥ अल्प- सूर्य्यपरिस्पन्दज्ञानजन्यगुणः । तस्यासमवायि- कारणं कालपिण्डसंयोगः । तदुभयं अपेक्षाबुद्धि- जन्यं । अपेक्षाबुद्धिनाशादेव तदुभयोर्नाशः । इति सिद्धान्तमुक्तावली ॥
