सामग्री पर जाएँ

अपरपक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपरपक्षः, पुं, (अपरः शेषः पक्षः अथवा अपरः शुक्लादितरः पक्षः, कर्म्मधारयः ।) कृष्णपक्षः । स तु पितृपक्षः । यथा । पूर्ब्बः पक्षो देवानाम- परः पक्षः पितॄणामिति श्रुतिः ॥ पक्षौ पूर्ब्बा- परौ शुक्लकृष्णौ मासस्तु तावुभौ । इत्यमरः ॥ मनुः । जथ श्राद्धममावास्यायां पितृभ्यो दद्यात् पञ्चमीप्रभृति वापरपक्षस्य यदहर्व्वा सम्पद्यते । इति श्राद्धतत्त्वम् * ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपरपक्ष¦ पु॰ अपरः शेषः पक्षः। कृष्णपक्षे स हि चन्द्रस्यवृद्धिह्रासपक्षयोर्मध्ये शेषः, चैत्रशुक्लप्रतिपद्येव वर्षारम्भ-णात् शुक्लस्य पूर्ब्बत्वम् सुतरां कृष्णस्यापरत्वम्।
“पूर्ब्बपक्षोदेवानामपरपक्षः पितॄणामिति” श्रुतिः।
“यथा चैवा-ऽपरपक्षः पूर्ब्बपक्षाद्विशिष्यते” इति मनुः
“अथ श्राद्ध-ममावास्यायां पितॄणां दद्यात् पञ्चमीप्रभृति वाऽपर-पक्षस्येति” स्मृतिः
“अश्वयुक्कृष्णपक्षस्य प्रेतपक्षत्वेन अपर-पक्षत्वव्यवहारः।
“अमावास्यामृतोयश्चापरपक्षमृतस्तथा। तस्य पार्वणमुद्दिष्टं मुनिभिः पञ्चपात्रकमिति” स्मृतिःकचित् प्रेतपक्षेत्येव पाठः।
“तुलादिषडशीत्यह्नांषडशीतिमुखं क्रमात्। तच्चतुष्टयमेव स्याद्द्विस्वभावेषुराशिषु॥ षड्विशे धनुषो भागे द्वाविंशेऽनिमिषस्य च। मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दशे॥ ततः शेषाणिकन्याया यान्यहानि तु षोडश। क्रतुभिस्तानि तुल्यानिपितॄणां दत्तमक्षयम्” इति सूर्य्यसिद्धान्तोक्तेः षडशीति-मुखावशिष्टानां षोडशानां दिनानां श्राद्धप्रशस्तकालत्वाद-परपक्षत्वम् अथ वा नास्ति परो यस्मात् तादृशः पक्षः। ताथाचाक्षयपुण्यदत्वेन अत्युत्कृष्टत्वात्तथात्वम्। पञ्चादशा-हस्यैव पक्षत्वेऽपि षोडशानां दिनानां किञ्चिदधिकपक्षत्वात्पक्षत्वम् तेषां सौरत्वेऽपि चान्द्रे पक्षे व्यवहारस्य गौणतेतिभेदः। विकल्प्यमानयोः पक्षयोर्मध्ये शेषपक्षे च।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपरपक्ष/ अपर--पक्ष m. the latter half of the month S3Br.

अपरपक्ष/ अपर--पक्ष m. the other or opposing side , the defendant.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपरपक्ष पु.
मास का द्वितीय पक्ष, (द्वितीयार्ध) बौ.श्रौ.सू. 1०.12ः1; का.श्रौ.सू. 24.4.22; महीने का दूसरा पक्ष अथवा भाग, अर्थात् कृष्ण पक्ष जिसमें 15 चान्द्र दिवस अथवा तिथियाँ होती हैं, आप.गृ.सू. 1.9।

"https://sa.wiktionary.org/w/index.php?title=अपरपक्ष&oldid=486996" इत्यस्माद् प्रतिप्राप्तम्