सामग्री पर जाएँ

अपराङ्गम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपराङ्गम्, क्ली, (अपरस्य रसादेरङ्गम्, षष्ठीतत्पुरुषः ।) गुणीभूतव्यङ्ग्यप्रभेदः । यथा अगूढमपरस्याङ्गमिति भरतमुनिः ॥ अस्यार्थः । अपरस्य रसादेर्वाक्या- र्थीभूतस्य वा वाच्यस्याङ्गं रसादि अनुरणनरूपं वा । इति काव्यप्रकाशः ॥ तत्रैवोदाहरणं । “अयं स रसनोत्कर्षी पीनस्तनविमर्द्दनः । नाभ्यूरु- जघनस्पर्शी नीवीविस्रंसनः करः” ॥ अत्र शृङ्गारः करुणस्याङ्गमिति ॥

"https://sa.wiktionary.org/w/index.php?title=अपराङ्गम्&oldid=112055" इत्यस्माद् प्रतिप्राप्तम्