अपराङ्मुखः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपराङ्मुखः, पुं, (परा + अञ्च + क्विन्, पराक् मुखं यस्य सः, ततो नञ्समासः ।) अविमुखः । सं- मुखीभूतः । यथा, -- “आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः । युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः” ॥ इति मानवे ७ अध्याये ८९ श्लोकः ॥
