अपराधः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपराधः, पुं, (अप + राध् + भावे घञ् ।) अका- र्य्यादिदोषः । तत्पर्य्यायः ॥ आगः २ मन्तुः ३ । इत्यमरः ॥ स च द्वात्रिंशद्विधो यथा । आगमे । “यानैर्व्वा पादुकैर्व्वापि गमनं भगवद्गृहे । देवोत्सवाद्यसेवा च अप्रणामस्तदग्रतः ॥ उच्छिष्टे वाथवाशौचे भगवद्दर्शनादिकं । एकहस्तप्रणामश्च तत्पुरस्तात् प्रदक्षिणं ॥ पादप्रसारणं चाग्रे तथा पर्य्यङ्कबन्धनम् । शयनं भक्षणं वापि मिथ्याभाषणमेव च ॥ उच्चैर्भाषामिथोजल्पो रोदनानि च बिग्रहः । ज्ञेयाः परेऽपि बहवोऽपराधाः सदसंमतैः । आचारैः शास्त्रविहितनिषिद्धातिक्रमादिभिः” ॥ * ॥ अथापराधशमनं । “संवत्सरस्य मध्ये च तीर्थे शौकरके मम । कृतोपवासः स्नानेन गङ्गायां शुद्धिमाप्नुयात् ॥ मथुरायां तथाप्येवं सापराधः शुचिर्भवेत् । अनयोस्तीर्थयोरङ्के यः सेवेत् सुकृती नरः ॥ सहस्रजन्मजनितानपराधान् जहाति सः” । स्कान्दे । “अहन्यहनि यो मर्त्त्यो गीताध्यायन्तु संपठेत् । द्वात्रिंशदपराधैस्तु अहन्यहनि मुच्यते” ॥ अत्र कार्त्तिकमाहात्म्ये । “तुलस्या कुरुते यस्तु शालग्रामशिलार्चनं । द्वात्रिंशदपराधांश्च क्षमते तस्य केशवः” ॥ तत्रैवान्यत्र । “द्वादश्यां जागरे विष्णोर्यः पठेत्तुलसीस्तवं । द्वात्रिंशदपराधानि क्षमते तस्य केशवः ॥ यः करोति हरेः पूजां कृष्णशस्त्राङ्कितो नरः । अपराधसहस्राणि नित्यं हरति केशवः” ॥ इति श्रीहरिभक्तिविलासे ८ विलासः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपराधः [aparādhḥ], An offence, a fault, guilt, crime, sin, mistake, error; (32 kinds are usually stated in Śāstras); कमपराधलवं मयि पश्यसि V.4.29; यथापराधदण्डानाम् R.1.6; सर्वापराधेषु अवध्याः खलु दूताः Abhiṣeka I. यथेन्द्रशत्रुः स्वरतो$प- राधात् Śik.52 mistake or error in accent; sometimes with gen. or loc. of person; अदः सुरेन्द्रस्य कृतापराधान् दैत्यान् V.1.2; कृतापराधमिव त्वय्यात्मानमवगच्छति K.23. -Comp. -क्षमापनस्तोत्रम् A panegyric to Devī (देवीस्तोत्र) by a later Śaṅkarāchārya in which there is a striking and melodious ending at the end of each verse as कुपुत्रो जायेत क्वचिदपि कुमाता न भवति । -भञ्जनः the destroyer of sins, epithet of Śiva; ˚स्तोत्रम् a short poem by Śaṅkarāchārya in praise of Śiva, the fourth line of the verses being usually क्षन्तव्यो मे$पराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ।
